भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 703, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 703

चुरादिगणः । (९५)

४२ पथि गतौ । ४३ पिच्छ कुट्टने । ४४ छिदि संवरणे । ४५ श्रण दाने । ४६ तड आघाते । ४७ खड ४८ खडि ४९ कडि भेदने । ५० कुडि रक्षणे । ५१ गुडि वेष्टने ॥ रक्षणे इत्येके । कुठि इत्यन्ये । गुठि इत्यपरे ॥ ५२ खुडि खण्डने । ५३ वटि विभाजने ॥ वडि इति केचित् ॥ ५४ मडि भूषायां हर्षे च । ५५ भडि कल्याणे । ५६ छर्द वमने । ५७ पुस्त ५८ बुल्ल आदरानादरयोः । ५९ चुद संचोदने । ६० नक्क ६१ धक्क नाशने । ६२ चक्क ६३ चुक्क व्यथने । ६४ क्षल शौचकर्मणि । ६५ तल प्रतिष्ठायाम् । ६६ तुल उन्माने । ६७ दुल उत्क्षेपे । ६८ पुल महत्त्वे । ६९ चुल समुच्छ्राये । ७० मूल रोहणे । ७१ कल ७२ बिल क्षेपे । ७३ बिल भेदने । ७४ तिल स्नेहने । ७५ चल मृतौ ॥ ७६ पाल रक्षणे । ७७ लूप हिंसायाम् । ७८ शुल्ब माने । ७९ शूर्प च । ८० चुट छेदने । ८१ मुठ संचूर्णने । ८२ पडि ८३ पसि नाशने । ८४ व्रज मार्गसंस्कारगत्योः । ८५ शुल्क अतिस्पर्शने । ८६ चपि गत्याम् । ८७ क्षपि क्षान्त्याम् । ८८ छजि कृच्छ्रजीवने । ८९ श्वर्त गत्याम् । ९० श्वभ्र च । ९१ ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु ॥ मिचेत्येके ॥ ९२ यम च परिवे- षणे । ९३ चह परिकल्पने ॥ चप इत्येके ॥ ९४ रह त्यागे च । ९५ बल प्राणने । ९६ चित् चयने ॥ नान्ये मितोऽहेतौ । ९७ वट्ट चलने । ९८ सुस्त संघाते । ९९ खट्ट संवरणे । १०० पट्ट १०१ स्फिड् १०२ चुबि हिंसायाम् । १०३ पूल संघाते ॥ पूर्ण इत्येके । पूण इत्यन्ये ॥ १०४ पुंस अभिवर्धने । १०५ टकि बन्धने । १०६ दूस कान्तिकरणे । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ कीट वर्णे । १०८ चूर्ण संकोचने । १०९ पूज पूजा- याम् । ११० अर्क स्तवने ॥ तपने इत्येके ॥ १११ शुठ आलस्ये । ११२ शुटि शोषणे । ११३ जुड प्रेरणे । ११४ गज ११५ मार्ज शब्दार्थौ । ११६ मर्च च । ११७ वृ प्रस्रवणे ॥ स्रावणे इत्येके । ११८ पत्रि विस्तारवचने । ११९ तिज निशाने । १२० कृत संशब्द- ने । १२१ वर्ष छेदनपूरणयोः । १२२ कुवि आच्छादने । कुभि इत्येके ॥ १२३ लुवि १२४ तुवि अदर्शने ॥ अर्दने इत्येके १२५ रूप व्यक्तायां वाचि ॥ क्लृप इत्येके ॥ १२६ चुटि छेदने १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्तायां वाचि । १३० ब्रूस १३१ बर्ह हिंसायाम् ॥ केचिदिह गर्ज गर्द शब्दे । गर्ध अभिकाङ्क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने ॥ १३३ जसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् । १३६ पिडि संघाते । १३७ रुष रोषे । रुट् इत्येके ॥ १३८ डिप क्षेपे । १३९ टुप समुच्छ्रये ॥ आकुस्मादात्मनेपदिनः ॥ १४० चित संचेतने । १४१ दशि दर्शने । १४२ दसि दर्शनदंशनयोः ॥ दस इत्यन्येके ॥ १४३ डपु १४४ डिपि संघाते । १४५ तत्रि कुटुम्बधारणे । १४६ मत्रि गुप्तपरिभाषणे । १४७ स्पश ग्रहणसंश्लेषणयोः । १४८ तर्ज १४९ भर्त्स तर्जने । १५० वस्त १५१ गन्ध अर्दने । १५२ विष्क हिंसा- याम् ॥ हिष्क इत्येके । १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् । १५५ कण संकोचे १५६ तून पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शट श्लाघायाम् । १५९ यक्ष