भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 709, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 709

लिङ्गानुशासनम् । (१०१) ३८ त्रान्तः । ३९ यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव । ४० भूतृामित्रच्छात्रपुत्रमन्त्रवृत्रमैत्राः पुंसि । ४१ पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च । ४२ बलकुसुमयुद्धपत्तनरणामिधानानि । ४३ पद्मक्रमलोत्पलानि पुंसि च । ४४ आहवसंग्रामौ पुंसि । ४५ आजिः स्त्रियामेव । ४६ फल- जातिः । ४७ वृक्षजातिः स्त्रियामेव । ४८ वियज्जगत्सकृत्क्लृप्तपृषच्छकृच्छ्रदुदुदश्वितः । ४९ नवनीतावृतानृतामृतनिमित्तवित्तपित्तव्रतरजतवृत्तपलितानि । ५० श्राद्धकुलिशदैवपीठकुण्डाङ्गद- धिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि । ५१ दैवं पुंसि च । ५२ धान्याज्यसस्यरूप्यपण्य- व्रण्यविष्ण्वहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि । ५३ द्वन्द्वैबर्हदुःखबडि- शपिञ्छविश्विकटुम्बकवचक्रवरवृन्दारकाणि । ५४ अक्षमिन्द्रिये ॥ १ स्त्रीपुंसयोः । २ गोमणियष्टिमृष्टिपाटलियष्टिशाल्मलिट्टिमिसमरीचयः । ३ मन्युसी- धुकर्कन्धुसिंधुकण्डूरेणवः । ४ गुगवचनमुकारान्तं नपुंसके च । ५ अपत्यार्थतद्धिते ॥ १ पुंनपुंसकयोः । २ घृतभूतमुक्तश्वेलितैरावतपुस्तबुस्तलोहिताः । ३ शृङ्गार्रनिदा- घोद्यमशल्यदृढाः । ४ व्रजकुञ्जकुथकूर्चप्रस्थवर्पार्भर्चपुच्छाः । ५ कबन्धौषधायुधान्ताः । ६ दण्डमण्डखण्डशवसैन्धवपार्श्वाकाशाङ्कुराकाशकुशकुलिशाः । ७ गृहमहदेहपट्टपटहाष्टापदा- र्बुदककुदाश्च ॥ १ अवशिष्टलिङ्गम् । २ अव्ययं कतियुष्मदस्मदः । ३ ष्णान्ता संख्या । ४ गुणवचनं च । ५ कृत्याश्च । ६ करणाधिकरणयोर्ल्युट् । ७ सर्वादीनि सर्वनामानि ॥ इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं समाप्तम् ॥