वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 718, कुल 835 में से
संदर्भ में पढ़ें( ११० ) वार्त्तिकपाठ- ५९८—आगमेः क्षमायाम् । ५९९-शिक्षेर्जिज्ञासायाम् । ६००-हरतेर्गतताच्छील्ये । ६०१- किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् । ६०२-सुडपि हर्षादिष्वेव वक्तव्यः । ६०३-आङि नुप्रच्छयोः । ६०४-शय उपालम्भे । ६०५-आङः प्रतिज्ञायामुपसंख्यानम् । ६०६-ईहायामेव । ६०७-उपादेवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् । ६०८-वा लिप्सायामिति वक्तव्यम् । ६०९-स्वाङ्गकर्मकाच्चेति वक्तव्यम् । ६१०-विदिप्रच्छिस्वरतीनामु- पसंख्यानम् । ६११-अत्तिश्रुदृशिभ्यश्चेति वक्तव्यम् । ६१२-उपसर्गादस्यत्यूह्योर्वेति वाच्यम् । ६१३-ज्योतिरुद्गमन इति वाच्यम् । ६१४-स्वराद्यन्तोपसर्गादिति वक्तव्यम् । ६१५-अदेः प्रतिषेधः । ६१६-घेट उपसंख्यानम् । ६१७-अनाचमिकमित्रमीनामिति वक्तव्यम् । ६१८ सकर्मकाणां प्रतिषेधो वक्तव्यः । ६१९-दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् । ६२०-सृ- जियुज्योः श्यंस्तु । ६२१-सृजेः श्रद्धोपपन्ने कर्त्तर्येवेति वाच्यम् । ६२२-भूषाकर्मकिरादि- सनां चान्यत्रात्मनेपदात् । ६२३-यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूनामुपसंख्यानम् । ६२४-- णिश्रन्थिग्रन्थिब्रूनात्मनेपदाकर्मकाणामुपसंख्यानम् । ६२५-अत्यन्तापह्नवे लिङ्वक्तव्यः । ६२६-यदायद्योरुपसंख्यानम् । ६२७-कामप्रवेदन इति वक्तव्यम् । ६२८-क्रियासमभिहारे द्वे वाच्ये । कृदन्तप्रकरणम् । ६२९-वसेस्तव्यत् कर्त्तरि णिच्च । ६३०-केलिमर उपसंख्यानम् । ६३१-निर्व्तीर्ण- स्योपसंख्यानम् । ६३२-ण्यन्तमादीनामुपसंख्यानम् । ६३३-तकिशसिचतियतिजनिभ्यो यद्वाच्यः । ६३४-हनो वा यद्वधश्च वक्तव्यः । ६३५-चरेराङि चागुरौ । ६३६-आङ्पू- र्त्वादङ्गेः संज्ञायामुपसंख्यानम् । ६३७-समश्च बहुलम् । ६३८-छन्दसीति वक्तव्यम् । ६३९-पाणौ सृजेर्ण्यद्वाच्यः । ६४०-समवपूर्वाच्च । ६४१-त्यजेश्च । ६४२-ण्यत्प्रकरणे लपिदमिभ्यां चेति वक्तव्यम् । ६४३-क्रमेः कर्त्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः । ६४४-चरिचलिपिविदीनां वा द्वित्वमच्याक् चाभ्यासस्येति वक्तव्यम् । ६४५-हन्तेर्घत्वञ्च । ६४६-पाटेर्णिलुक् चोक्च दीर्घश्चाभ्यासस्य । ६४७-नौ लिम्पेर्वाच्यः । ६४८-गवादिषु विन्देः संज्ञायाम् । ६४९-तनोतेरुपसंख्यानम् । ६५०-नृतिखनिरञ्जिभ्य एव । ६५१-अस्य केऽने च रञ्जेर्नलोपो वाच्यः । ६५२-शीलिकामिमक्ष्याचारिभ्यो णः । ६५३-ईक्षिक्षमि- भ्यां च । ६५४-कविधौ सर्वत्र सम्प्रसारणिभ्यो डः । ६५५-आलस्यसुखाहरणयोरिति वक्तव्यम् । ६५६-कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् । ६५७-शक्तिलाङ्गलाङ्कुशतो- मरपट्टिघटघटीधनुषु ग्रहेरुपसंख्यानम् । ६५८-सूत्रे च धार्येऽर्थे । ६५९-हस्तिसूचकयोरिति वक्तव्यम् । ६६०-पार्श्वादिषूपसंख्यानम् । ६६१-उत्तानादिषु कर्त्तृषु । ६६२-गिरौ डश्छ- न्दसि । ६६३-कियत्तद्वहुषु कृञोऽज्विधानम् । ६६४-व्रीहिवत्सयोरिति वक्तव्यम् । ६६५-घातशुनीतिलशर्षेष्वजघेटतुदजहातिभ्यः खश् उपसंख्यानम् । ६६६-स्तने धेटो नासिका- यां ध्मश्चेति वाच्यम् ।