वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 721, कुल 835 में से
संदर्भ में पढ़ें॥ श्रीः ॥ अथ परिभाषापाठः । १ व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम् ॥ २ यथोद्देशं संज्ञापरिभाषम् ॥ ३ कार्यकालं संज्ञापरिभाषम् ॥ ४ अनेकान्ता अनुबन्धाः ॥ ५ एकान्ता अनुबन्धाः ॥ ६ नानुबन्धकृतमनेकाल्त्वम् ॥ ७ नानुबन्धकृतमनेजन्तत्वम् ॥ ८ नानुबन्धकृतमसा- रूप्यम् ॥ ९ उभयगतिरिह भवति ॥ १० कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते ११ यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ १२ निर्दिश्यमानस्यादेशा भवन्ति ॥ १३ यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयाः ॥ १४ अर्थवद्ग्रहणे नानर्थ- कस्य ( ग्रहणम् ) ॥ १५ गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः ॥ १६ अनिन्समन्ग्रहणान्य- र्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ १७ एकयोगनिर्दिष्टानां सह वा प्रवृत्ति- स्सह वा निवृत्तिः ॥ १८ एकयोगनिर्दिष्टानां कचिदेकदेशोप्यनुवर्तते ॥ १९ भाव्यमा- नेन सवर्णानां ग्रहणं न ॥ २० भाव्यमानोऽप्युकारस्सवर्नान् गृह्णाति ॥ २१ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ २२ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ २३ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ॥ २४ प्रत्ययग्रहणे चापञ्चम्याः ॥ २५ उत्तरप- दाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् ॥ २६ स्त्रीप्रत्यये चानुपसर्जने न ॥ २७ संज्ञा- विधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥ २८ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ २९ पदाङ्गाधिकारे तस्य च तदन्तस्य च ॥ ३० व्यपदेशिवदेकस्मिन् ॥ ३१ ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ॥ ३२ व्यपदेशिवद्भावोऽप्रातिपदिकेन ॥ ३३ यस्मिन्विधिरस्तदादावल्ग्रहणे ॥ ३४ सर्वो द्वन्द्वो विभाषैकवद्भवति ॥ ३५ सर्वे विधयश्छन्दसि विकल्प्यन्ते ॥ ३६ प्रकृतिवदनु- करणं भवति ॥ ३७ एकदेशविकृतमनन्यवत् ॥ ३८ पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः ॥ ३९ पुनः प्रसङ्गविज्ञानात्सिद्धम् ॥ ४० सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ॥ ४१ विकरणेभ्यो नियमो बलीयान् ॥ ४२ परान्नित्यं बलवत् ॥ ४३ कृताऽकृतप्रसङ्गि नित्यम् ॥ ४४ शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ॥ ४५ शब्दान्तरस्याप्राप्नुवतः शब्दान्तरे प्राप्नुव- तश्चानित्यत्वम् ॥ ४६ लक्षणान्तरेण प्राप्नुवन्विधिरनित्यः ॥ ४७ क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता ॥ ४८ यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ ४९ यस्य च लक्ष- णान्तरेण निमित्तं विहन्यते तदप्यनित्यम् ॥ ५० स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यः ॥ ८