वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 723, कुल 835 में से
संदर्भ में पढ़ेंपरिभाषापाठः । (११५) दायप्रसिद्धिर्बलीयसी ॥ १०९ व्यवस्थितविभाषयापि कार्याणि क्रियन्ते ॥ ११० विधिनियम- संभवे विधिरेव ज्यायान् ॥ १११ सामान्यातिदेशे विशेषानतिदेशः ॥ ११२ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् ॥ ११३ सहचरितासहचरितयोस्सहचरितस्यैव ग्रहणम् ॥ ११४ श्रुता- नुमितयोः श्रुतसम्बन्धो बलीयान् ॥ ११५ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ ॥ ११६ गामादाग्रहणेष्वविशेषः ॥ ११७ प्रत्येकं वाक्यपरिसमाप्तिः ॥ ११८ क्वचित्समु- दायेऽपि ॥ ११९ अभेदका गुणाः ॥ १२० बाधकान्येव निपातनानि ॥ १२१ पर्जन्यव- ल्लक्षणप्रवृत्तिः ॥ १२२ लक्ष्ये लक्षणं सकृदेव प्रवर्तते ॥ १२३ निषेधाश्च बलीयांसः ॥ १२४ अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे ॥ १२५ योगविभागादिष्टसिद्धिः ॥ १२६ पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते ॥ १२७ ज्ञापकसिद्धं न सर्वत्र ॥ १२८ पूर्वत्रासिद्धीयमद्वित्वे ॥ १२९ एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ १३० संप्र- सारणं तदाश्रयं च कार्यं बलवत् ॥ १३१ क्वचिद्विकृतिः प्रकृतिं गृह्णाति ॥ १३२ औपदे- शिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम् ॥ १३३ शितपा शपाऽनुबन्धेन निर्दिष्टं यद्गुणेन च ॥ यत्रैकाग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १३४ पदगौरवाद्योगविभागो गरीयान् ॥ १३५ अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ॥ इति परिभाषापाठः समाप्तः ।