वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 158, कुल 192 में से
संदर्भ में पढ़ेंवागित्युच्यते। अथ तदेव नाभिपर्यन्तमागच्छता तेन पवनेनाभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपकार्यबिन्दुमयं सत्पश्यन्ती वागित्युच्यते। अथ तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमागच्छताभिव्यज्यमानं निश्चयात्मकया बुद्ध्या युक्तं विशेषस्पन्दप्रकाशरूपनादमयं सन्मध्यमा वागित्युच्यते। अथ तदेव वदनपर्यन्तं तेनैव वायुना कण्ठादिस्थानेषु अभिव्यज्यमानमकारादिवर्णरूपं परश्रवण- योग्यस्पष्टतरप्रकाशरूपं बीजात्मकं सत्वैखरीवागुच्यते। इत्थं चतुर्विधासु परादित्रय- मजानन्तो मनुष्याः स्थूलदृशो वैखरीमेव वाचं मन्यन्ते। तथा च श्रुतिः 'तस्माद्यद्वा- चोऽनाप्तं तन्मनुष्या उपजीवन्ति' इति। अनाप्तमपूर्णं निस्मृतिरहितमिति व्याख्या- तारः। चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति॥ यज्ञवैभवखण्डे स्कान्दे-अपदं पदमापन्नं पदं चाप्यपदं भवेत्। पदापदविभागं च यः पश्यति स पश्यति। अपदं गतिरहितं निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं ब्रह्मैव भवतीति तदर्थः। इति॥ तदयं क्रमः-घनीभूतं महः, ततो विचिकीर्षा, ततोऽव्यक्तं (कारणबिन्दुपदवा- च्यम्) ततो ऽव्यक्तो रवः (कारणबिन्दात्मकः निःस्पन्दं शब्दब्रह्म मूलाधारेऽभिव्य- क्तिमान् परावाग्रूपः) ततः पश्यन्ती (कार्यबिन्दुरूपा स्पन्दसामान्यवती) ततो मध्यमा (नादाख्यस्पन्दविशेषवती) ततो वैखरी (बीजरूपा अकारादिवर्णरूपा) इति॥ शारदातिलकेऽपि अयमेव प्रकारः उद्दिष्टः- निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः। निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः॥ सनातनः-नित्यः। आद्यस्य स्वरूपमाह-निर्गुण इति। प्रकृतेरन्यः-प्रकृति- सम्बन्धशून्यः। द्वितीयस्य स्वरूपमाह-सगुण इति। सकलः-कला प्रकृतिस्तत्स- हित इत्यर्थः। सांख्यमते सत्त्वरजस्तमसां साम्यावस्था प्रधानापरपर्याया प्रकृतिः। वेदान्तनये अविद्या। शिवतन्त्रे शक्तिः। सच्चिदानन्दविभवात्सकलात्परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः॥ सृष्टिमाह-सच्चिदिति। अविद्याशबलितत्वेन जडत्वे कथं तस्य स्रष्टृत्वमित्या- शङ्कां वारयति-सच्चिदानन्दविभावादिति। अनेनाविद्यावच्छेदोऽपि तस्य न स्वरूपहानि- रित्यर्थः। सकलाच्छक्तिसहितात्-शक्तिरासीदिति योजना। ननु शक्तिसहितत्वादेव पुनः कथं शक्तिरासीदिति चेत्सत्यम्-या अनादिरूपा चैतन्याभासेन महाप्रलये सूक्ष्मास्थिता तस्या गुणवैषम्येन सात्त्विकराजसतामससृष्ट्याख्यकार्यसाधने या उच्छू- नावस्था सैवोत्पत्तिरित्यवेहि। तदुक्तं वायवीयसंहितायां-'शिवेच्छया परा शक्तिः १६ वा०