वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 163, कुल 192 में से
संदर्भ में पढ़ेंरूपं अर्थप्रत्यायकत्वात् तदुक्तरूपं त्वर्थप्रत्यययोरेकत्वात् प्रत्ययस्य च प्रत्येतरूपत्वात्तदधीनो- त्पत्तिकत्वाज्ज्ञानान्नामधेयरूपेणार्थरूपेणार्थस्य तादात्म्यं कथयति । नन्वस्त्वर्थसम्प्रत्ययो ना- मधेश्यसामानाधिकरण्येन नह्येतावता नामधेयात्मता सिद्ध्यति अस्ति हि पुरोवर्ति सामानाधिकरण्येन रजतप्रत्ययो नचैतावता शुक्तौ रजतात्मिका भवति तत्र विसं- वादात् शुक्तौ रजतात्मकत्वाभावेऽपि इहाविसंवादात् प्रमाणं सन् सामानाधिकरण्यानु- भवो नामधेयतादात्म्यं साधयत्यर्थानामिति । एवं च वैयाकरणाः निर्विकल्पके ज्ञाने घटघटत्वयोर्भानेन घटादितादात्म्यापन्नः घटशब्दोऽपि भासत इति मन्यन्ते । तथा च तात्पर्यटीकाकृतः ‘नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मत- मपाचिकीर्षुरभ्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः’