वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 165, कुल 192 में से
संदर्भ में पढ़ें१३६ वाक्यपदीयम् शशविषाणं गन्धर्वनगरं राहोः शिरः इत्यादिकं वाचा समुत्थाप्यमानं मुख्यसत्तयायुक्त- मिव भासते इत्यर्थः । और, वही वाणी सब विद्याओं, शिल्पों और कलाओं का बोध कराती है तथा उसी के द्वारा उत्पन्न घट, पट आदि समस्त वस्तुओं का विभाग भी सिद्ध होता है ॥ १२५ ॥ अयं भावः मनुष्याणां सर्वोऽपि लौकिके वैदिके वार्थे यो व्यवहारः स विद्या- शिल्पकलादिभिः प्रतिबद्धः मनुष्याधीनश्च स्थावरजङ्गमस्य व्यवहारः विद्यादयश्च वाग्रूपायां बुद्धौ निबद्धाः घटादीनां निष्पादनेऽपि प्रयोजकः 'एवं क्रियताम्' इत्युपदि- शति प्रयोज्यश्च 'एवं करोमि' इति समीहते स चासम्भवो वाग्रूपतामन्तरेणेति ॥ विद्याः—अष्टादश, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः इति वेदाश्चत्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति वेदाङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति उपाङ्गानि चत्वारि । अत्रोपपुराणानां पुराणे वैशे- षिकशास्त्रस्य न्याये वेदान्तशास्त्रस्य मीमांसायाम् महाभारतरामायणयोः सांख्यपा- तञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्वन्तर्भावः । इति मिलित्वा चतुर्दशविद्याः तदुक्तं—'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥' इति । एता एव चतुर्भिः आयुर्वेदधनुर्वेदगान्धर्ववेदार्थशास्त्राख्यैरुपवेदैः सहिता अष्टादश विद्या भवन्ति । अर्थशास्त्रे—नीतिशास्त्रखड्गशास्त्रगजशास्त्रशिल्पशा- स्त्रसूपकारशास्त्राणामन्तर्भावः विस्तरस्तु महिम्नस्तोत्रान्तर्गत 'त्रयीसांख्यम्' इति श्लोक- व्याख्याने मधुसूदनसरस्वतीकृते द्रष्टव्यः । शिल्पम्—शिल्पशास्त्रं गृहादिनिर्माणप्रकारबोधकं शास्त्रम् । चतुः षष्टिकलाश्च—गीतम्, वाद्यम्, नृत्यम्, नाट्यम्, आलेख्यम्, विशेष- कच्छेद्यम्, तण्डुलकुसुमबलिविकाराः, पुष्पास्तरणम्, दशनवसनाङ्गरागाः, मणिभूमि- काकर्म, शयनरचनम्, उदकवाद्यम्, उदकघातः, अद्भुतदर्शनवेदिता, माल्यग्रथनकल्पः, शेखरापीडयोजनम्, नेपथ्ययोगः, कर्णपत्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम्, इन्द्र- जालम्, कौचुमारयोगाः, हस्तलाघवम्, चित्रशाकापूपभक्ष्यविकारक्रियाः, पानकरस- रागासवयोजनम्, सूचीवापकर्म, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिकाप्रतिमालाः, दुर्वाचकयोगाः, पुस्तकवाचनम्, नाटिकाख्यायिकादर्शनम्, काव्यसमस्यापूरणम्, पट्टिकावेत्रवानविकल्पाः, तर्कुकर्माणि, तक्षणम्, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातु- वादः, मणिरागज्ञानम्, आकरज्ञानम्, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम्, उत्सादनम्, केशमार्जनकौशलम्, अक्षरमुष्टिकाकथनम्, म्लेच्छितकविकल्पाः, देशभाषाज्ञानम्, पुष्पशकटिकनिमित्तज्ञानम्, यन्त्रमातृका, धारणमातृका, असंवाच्यसम्पाठ्यम् , मानसीकाव्यक्रियाविकल्पाः द्युलितकयोगाः, अभिधानकोशच्छन्दोज्ञानम् , क्रियाविकल्पाः, ललितविकल्पाः, वस्त्रगोपनानि, द्यूतविशेषः, आकर्षनक्रीडा, बालक्रीडनकानि वैशयिकविद्याज्ञानम् , वैजयिकविद्या- ज्ञानम् , वैतालिकविद्याज्ञानम् , इति ॥ १२५ ॥