वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 38, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ५
अत एव शान्तरक्षितेन अनादिनिधनमिति कारिकामर्थतोऽनुवदता विवर्त- पदमपहाय परिणामपदमेव प्रयुक्तम् । तथा हि— नाशोत्पादसमालीढं ब्रह्म शब्दमयं च यत् । यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥ इति । विवर्तपदेन परिणाम एवाभिप्रेतो वाक्यपदीयकारस्यापि 'शब्दस्य परिणामोऽय- मित्याम्नायविदो विदुः' इति अग्रिमकारिकादर्शनावदगम्यते । विवर्ततेऽर्थभावेन इत्यस्य 'एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्याविभक्ता- न्यरूपोपग्राहिता विवर्त' इति टीकादर्शनात् शब्दस्य विवर्तोऽर्थो न परिणाम इत्य- वगम्यते । न्यायमञ्जर्यां शब्दविवर्तवादस्य शब्दपरिणामवादस्य च खण्डनदर्शना- दुभयमपि वैयाकरणानामभिमतमित्यवगम्यते इत्यलमतिजल्पनेन । विवर्तपरिणामयोर्लक्षणे तु—'अत