वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 23, कुल 106 में से
संदर्भ में पढ़ेंकामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ॥ ४३ ॥ द्विगुणं हिरण्यं त्रिगुणं धान्यम् ॥ ४४ ॥ धान्येनैव रसा व्याख्याताः ॥ ४५ ॥ पुष्पमूलफलानि च ॥ ४६ ॥ तुलाधृतमष्टगुणम् ॥ ४७ ॥ अथाप्युदाहरन्ति । द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं स्मृतम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ ४८ ॥ राजा तु मृतभावेन द्रव्यवृद्धिं विनाशयेत् । पुनराजाभिषेकेण द्रव्यमूलं च वर्धते ॥ ४९ ॥ वसिष्ठवचनप्रोक्तां वृद्धिं वार्धुषिके शृणु । पञ्च माषास्तु विंशत्या एवं धर्मो न हीयत इति ॥ न हीयत इति ॥ ५० ॥ ॥ इति वासिष्ठधर्मशास्त्रे द्वितीयोध्यायः ॥ २ ॥ अश्रोत्रिया अननुवाक्या अनग्नयो वा शूद्रसधर्माणो भवन्ति ॥ १॥ मानवं चात्र श्लोकमुदाहरन्ति योनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २ ॥ नानुग्ब्राह्मणो भवति न वणिङ्न कुशीलवः । न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः ॥ ३ ॥ 43. परिलुप्ताल्पाय F. 48. ˚आनुपूर्वशः B. Bh. E. 49. भृतिभावेन B. Ban. ed. विभाजयेत् F. ˚अभिविकेण B. अभीषिकेण Ban. ed. तु instead of च B. III. 1. शूद्रकर्माणः B. Ban. ed वा omit F, H. 3. ˚प्रेष्यां E. F,