वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 46, कुल 106 में से
संदर्भ में पढ़ें३२ नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः । यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिण इति ॥ ४२ ॥ श्रावण्याग्रहायण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात् ॥ ४३ ॥ द्रव्यदेशब्राह्मणसन्निधाने वाकालनियमः ॥ ४४ ॥ अवश्यं ब्राह्मणोऽग्नीनादधीत ॥ ४५ ॥ दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजेत ॥ ४६ ॥ नैयमिकं ह्येतदृणसंस्तुतं च ॥ ४७ ॥ विज्ञायते हि । त्रिभिर्ऋणैर्ऋणवान्ब्राह्मणो जायत इति । यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वानृणो यज्वा यः पुत्री ब्रह्मचर्यवानिति ॥ ४८ ॥ गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ ४९ ॥ गर्भादेकादशेषु राजन्यम् ॥ ५० ॥ गर्भाद्वादशेषु वैश्यम् ॥ ५१ ॥ पालाशो वा दण्डो ब्राह्मणस्य ॥ ५२ ॥ नैयग्रोधः क्षत्रियस्य वा ॥ ५३ ॥ औदुम्बरो वा वैश्यस्य ॥ ५४ ॥ केशसंमितो ब्राह्मणस्य ॥ ५५ ॥ ललाटसंमितः क्षत्रियस्य ॥ ५६ ॥ घ्राणसंमितो वैश्यस्य ॥ ५७ ॥ मौञ्जी रशना ब्राह्मणस्य ॥ ५८ ॥ धनुर्ज्या क्षत्रियस्य ॥ ५९ ॥ शणतान्तवी वैश्यस्य ॥ ६० ॥ 42. तन्वन्ति B. Bh. 45. अवश्यं च B. H. 47. ऋण संस्तुतं Bh. F. H. संस्कृतं B. Ban. ed. 48. येन instead of यज्ञेन H. 52. पालाशो बैल्वो वा F. H. 55-60 wanted in F. H. 57. घ्राण° Āśvalāyanagṛihyas. 1,19,13.