वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 59, कुल 106 में से
संदर्भ में पढ़ें४५ तद्धर्माणस्तं धर्मयन्तः ॥ १६ ॥ पतितानां तु चरितव्रतानां प्रत्युद्धारः ॥ १७ ॥ अथाप्युदाहरन्ति । अग्रेभ्युद्धरतां गच्छेत्क्रीडन्निव हसन्निव । पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निवेति ॥ १८ ॥ आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा एषां तेषां प्रत्या- पत्तिः ॥ १९ ॥ पुण्यह्रदात्प्रसृताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वापोहिष्ठाभि- रैनमद्भिरभिषिञ्चन्ति ॥ २० ॥ सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातो व्याख्यात इति ॥ २१ ॥ इति वासिष्ठधर्मशास्त्रे पञ्चदशोऽध्यायः ॥ १५ ॥ अथ व्यवहाराः ॥ १ ॥ राजा मन्त्री वा सद्यःकार्याणि कुर्यात् ॥ २ ॥ द्वयोर्विवदमानयोः पक्षान्तरं न गच्छेत् ॥ ३ ॥ यथासनमपराधोह्यन्तेनापराधः ॥ ४ ॥ समः सर्वेषु भूतेषु यथासनमपराधोह्याद्यवर्णयोर्विद्यान्ततः ॥ ५ ॥ संपन्नं च रक्षयेत् ॥ ६ ॥ राजबालधनानि ॥ ७ ॥ अप्राप्तव्यवहाराणाम् ॥ ८ ॥ 16. ते न संघर्मयेयुः B. Bh. E. H. 19. एषां Bh. E. 20. पूर्णाद्वाद् thus all MSS. except B. which reads पूर्णाद्वा दशाद्वब्दात्प्रवृत्ताद्वा. XVI. 4. and 5. are evidently corrupt. 5. अद्यवर्णयोर्विधानतः J.O. 913. 6. सपत्नं च र° B. Ban. ed. संपन्नं च क्षरेत्तु H.