वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 62, कुल 106 में से
संदर्भ में पढ़ेंस्वजनस्वार्थे यदि वार्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम् । ते शब्दवंशस्य कुलस्य पूर्वान् स्वर्गस्थितांस्तानपि पातयन्ति ॥ अपि पातयन्तीति ॥ ३७ ॥ इति वासिष्ठधर्मशास्त्रे षोडशोऽध्यायः ॥ १६ ॥ ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १ ॥ अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोस्तीति श्रूयते ॥ २ ॥ अप्रजाः सन्तवत्रिण इत्यभिशापः ॥ ३ ॥ प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥ ४ ॥ पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति ॥ ५ ॥ क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥ ६ ॥ तत्रोभयथाप्युदाहरन्ति ॥ ७ ॥ यद्यन्यगोष्ठु वृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा मोघं स्यन्दितमर्षभमिति ॥ ८ ॥ स्कन्दितमिति पाठः। अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः। जनयितुः पुत्रो भवति संपराये मोघं तेत्ता कुरुते तन्तुमेतमिति ॥ ९ ॥
पादटिप्पणी (Footnotes):
- पक्षाश्रयेणाभिवदन्ति कार्याः B. Ban. ed. H. द्वे शब्द° B. Ban. ed. H. कुलस्य दग्ध्वा स्वर्गं Ban. ed. दृष्ट्वा B. °स्थितानसपि B. Ban. ed. XVII. 8. यद्यन्यां गोषु B. Bh.. गोपानामेव E. 9. न जनयितुं B. Bh. E. H,, compare however Āpast Bh. II, 6. 13. 7. संपरायः B. Ban ed, H.