वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 69, कुल 106 में से
संदर्भ में पढ़ें५५ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ १४ ॥ यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् । सोसंवृत्तं तमो घोरं सह तेन प्रपद्यत इति ॥ १५ ॥ व्रणद्वारे कृमिर्यस्य संभवेत् कदा च न । प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा इति ॥ १६ ॥ नाग्निं चित्वा रामामुपेयात् ॥ १७ ॥ कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥ १८ ॥ इति वासिष्ठधर्मशास्त्रेष्टादशोध्यायः ॥१८ ॥ स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः ॥ १ ॥ भयकारुण्यहानं जरामर्यं वा एतत्सच्रमाहुर्विद्वांसः ॥ २ ॥ तस्माद्बार्हस्थ्यनैयमिकेषु पुरोहितं दध्यात् ॥ ३ ॥ विज्ञायते । ब्रह्मपुरोहितं राष्ट्रमृध्नोतीति ॥ ४ ॥ उभयस्य पालनात् ॥ ५ ॥ असामर्थ्याच्च ॥ ६ ॥ देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णा- न्स्वधर्मे स्थापयेत् ॥ ७ ॥ तेष्वपचरत्सु दण्डं धारयेत् ॥ ८ ॥ दण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैर्हिंसाक्रोशयोः कल्प्यः ॥ ९ ॥ आगमाद्दृष्टान्ताच्च ॥ १० ॥ 15. सुखं वृतं E. F. XIX. 2. This Sūtra seems to be faulty. 3. दद्यात्. F. H. 4. ऋध्यतिः E. H. 9. कल्पः Ban. ed. कल्पाः Bh. E. H. वासिष्ठ धर्म ८.