वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 74, कुल 106 में से
संदर्भ में पढ़ें६० मद्यभाण्डे स्थिता आपो यदि कश्चिद्विजः पिबेत्पद्मोडुम्बरबिल्व- पलाशानमुदकं पीत्वा त्रिरात्रेणैव शुध्यति ॥ २१ ॥ अभ्यासे तु सुराया अग्निवर्णां तां द्विजः पिबेन्मरणात्पूतो भवतीति ॥ २२ ॥ भ्रूणहनं वक्ष्यामो ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं च गर्भम् ॥ २३ ॥ अविज्ञाता हि गर्भाः पुमांसो भवन्ति तत्मात्पुंस्कृत्या जुह्वतीति ॥ २४ ॥ भ्रूणहाग्निमुपसमाधाय जुहुयादेताः ॥ २५ ॥ लोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वासय इति प्रथमां । त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति द्वितीयां । लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीयां । मांसं मृत्यो- र्जुहोमि मांसेन मृत्युं वासय इति चतुर्थीं । स्नावानि मृत्यो- र्जुहोमि स्नावभिर्मृत्युं वासय इति पञ्चमीं । मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय इति षष्ठीं । अस्थीनि मृत्योर्जुहोम्यस्थि- भिर्मृत्युं वासय इति सप्तमीं । मज्जानं मृत्योर्जुहोमि मज्जाभिर्मृत्युं वासय इत्यष्टमीमिति ॥ २६ ॥ राजार्थे ब्राह्मणार्थे वा संग्रामेऽभिमुखमात्मानं घातयेत् ॥ २७ ॥ त्रिरजितो वापराद्धः पूतो भवतीति विज्ञायते हि ॥ २८ ॥ निरुक्तं ह्येनः कनीयो भवतीति ॥ २९ ॥ 21. पिबेत्कुशमोडुम्बर °Ban. ed. 24. पुस्कृत B. H. पुरस्कृत्य Bh. E. H. 25. एता: wanted F. H. 26. वाशय B. F. प्रथम। द्विताय and so on F. H. 27. शवार्थे F. 28. त्रिरजितो वापराद्धं: Bh. E. विरजितो- व्यापराद्धः H. व्यापराधः F. this Sūtra seems to be corrupt, compare Āpast. Dh. I, 24, 21 and Gautama 22, 8.