वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 76, कुल 106 में से
संदर्भ में पढ़ें६२ पतितसंप्रयोगे च ब्राह्मेण वा यौनेन वा यास्तेभ्यः सकाशा- न्माता उपलब्धास्तासां परित्यागस्तैश्च न संवसेत् ॥ ४५ ॥ उदीचीं दिशं गत्वानश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥ ४६ ॥ तथाप्युदाहरन्ति । शरीरपरितापेन तपसाध्ययनेन च । मुच्यते पापकृत्यापाद्दानाच्चापि प्रमुच्यते ॥ इति विज्ञायते विज्ञायत इति ॥ ४७ ॥ इति वासिष्ठधर्मशास्त्रे विंशोध्यायः ॥ २० ॥ शूद्रश्चेद्व्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येद्व्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णख- रमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ १ ॥ वैश्यश्चेद्व्राह्मणीमभिगच्छेल्लोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्व्रा- ह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां गौर- खरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ २ ॥ राजन्यश्चेद्व्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्ये- द्व्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतखरमारोप्य महापथमनुसंत्राजयेत्पूता भवतीति विज्ञायते ॥ ३ ॥ एवं वैश्यो राजन्यायाम् ॥ ४ ॥ 45. °संप्रयोगं च B. Bh. Ban. ed. XXI. 1. 2. 3. प्राश्येत् B. Ban. ed. H. वापनं Bh. E. H. सर्पिषाभ्यज्य B. H.