वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 80, कुल 106 में से
संदर्भ में पढ़ें६६ तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योश्वमेधेन यजत इति ॥६॥ इति चाभिशस्तो गोसवेनाग्निष्टुता यजेत ॥ ७ ॥ तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानम् ॥ ८ ॥ उपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दःसंहिता मधून्यघमर्षण- मथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥ ९ ॥ अथाप्युदाहरन्ति । वैश्वानरीं व्रातपतीं पवित्रेष्टिं तथैव च । सकृदृतौ प्रयुञ्जानः पुनाति दशपूरुषमिति ॥ १० ॥ उपवासन्यायेन पयोव्रतता फलभक्षता प्रसृतयावको हिरण्य- प्राशनं सोमपानमिति मेध्यानि ॥ ११ ॥ सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्यृषि- निवासगोष्ठपरिस्कन्धा इति देशाः ॥ १२ ॥ संवत्सरो मासश्चतुर्विंशत्यहो द्वादशाहः षडहस्त्र्यहोहोरात्रा इति कालाः ॥ १३ ॥ एतान्येवानादेशे विकल्पेन क्रियेरन् ॥ १४ ॥ एनःसु गुरुषु गुरूणि लघुषु लघूनि ॥ १५ ॥ been left out. This omission caused the insertion of the words तस्माच्छ्रुतिनिदर्शनान् at the end of Sūtra 5. The proof that the sixth Sūtra of Baudhāyana has been accidently omitted is furnished by the fact that B.Bh.E.and H.read Sūtra 6 योश्वमे- धेन यजत इति च. This च has no meaning, except if another Vedic passage preceded Sūtra 6. See Buhler, Transl., pg. 116. 6. भ्रूणहत्यां Bh. E. H. 8. निष्क्रमणानि Bh. E.H. 10. ऋतावृत्तौ H. सामावृत्तौ Bh. सकृज्जतौ E. F. सप्तपूरुषं E. 11. उपासन्त्यायेन B. E. H. उपासन्न्यायेन Bh. उपन्प्यायेन F. 12. पुण्या वरतास्तीर्थानि B. E. पुण्या नद्यस्तर्थानि F. गोष्ठपरिकन्धाः B. गोष्ठपरिकंक्षाः Bh. F. H. ऋषिनिवासाः B.H. 14. एतान्ये वानादेशविकल्पेन Bh. E. H.