वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 88, कुल 106 में से
संदर्भ में पढ़ें७४ जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम् । न परिवसन्ति पापानि ये च स्नाताः शिरोव्रतैः ॥ १२ ॥ यथाग्निर्वायुना धूतो हविषा चैव दीप्यते । एवं जाप्यपरो नित्यं ब्राह्मणः संप्रदीप्यते ॥ १३ ॥ स्वाध्यायाध्यायिनां नित्यं नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चापि विनिपातो न विद्यते ॥ १४ ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥ १५ ॥ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपैहोमैर्द्विजोत्तमः ॥ १६ ॥ यथाश्वा रथहीनाः स्यू रथो वाश्वैर्विना यथा । एवं तपस्त्वविद्यस्य विद्या चाप्यतपस्विनः ॥ १७ ॥ यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् । एवं तपश्च विद्या च संयुक्तं भेषजं महत् ॥ १८ ॥ विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् । सदापि पापकर्माणमेनो न प्रतियुज्यते ॥ एनो न प्रतियुज्यत इति ॥ १९ ॥ इति वासिष्ठधर्मशास्त्रे षड्विंशोध्यायः ॥ २६ ॥ ──────── यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्याग्निरिवेन्धनम् ॥ १ ॥ ──────── 13. यथाग्निर्वायुनोद्भूतः F. H. जाप्यपरः F. H. 14. चैव instead of चापि B. F. H. 16. जपहोमैः° B. F. H. 17. रथा वाश्वैर्यथा विना B. F. H. 18. चान्नेन F. H. भषज F. H. XXVII. 1. यद्यकार्यकृतं त्यागं E. सर्वं तु तस्य F,