वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 91, कुल 106 में से
संदर्भ में पढ़ें७७ न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा । नापो मूत्रपुरीषेण नाग्निर्दहनकर्मणा ॥ १ ॥ स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥ २ ॥ न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते । पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ ३ ॥ स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ४ ॥ पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः । गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥ ५ ॥ तासां सोमोददच्छौचं गन्धर्वः शिक्षितां गिरम् । अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ ६ ॥ त्रीणि स्त्रियः पातकानि लोके धर्मविदो विदुः भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ ७ ॥ वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने । स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ ८ ॥ अजाश्वा मुखतो मेध्या गावो मेध्यास्तु सर्वतः ॥ ९ ॥ सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ १० ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्डानि पावमान्यो दुर्गासावित्रिरेव च ॥ ११ ॥ XXVIII. 1. वारेण B. F. २. बलात्कारेण भुक्ता. E. H. चौर° F. H. 5. पश्चाच्च दुष्यन्ति F. H. 6. सर्वभक्षत्वं B. F. H. 7. भर्तृ- वैधः F. H. 8. फलशातने F. H. वत्सो मध्यावने मेध्यः H. 11. शुद्धवत्य- रतसमा. Bh. E. H.