वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 95, कुल 106 में से
संदर्भ में पढ़ें८१ अग्निर्वै ब्राह्मण इति श्रुतेः ॥ ३ ॥ तच्च कथम् ॥ ४ ॥ तत्र सदो ब्राह्मणस्य शरीरं वेदिः संकल्पो यज्ञः पशुरात्मा रशना बुद्धिः सदो मुखमाहवनीयं नाभ्यामुदरोग्निर्गार्हपत्यः प्राणोऽध्वर्युरपानो होता व्यानो ब्रह्मा समान उद्गातात्मेन्द्रियाणि यज्ञपात्राणि य एवं विद्वानिनिन्द्रियैरिन्द्रियार्थ जुहोतीत्यपि च- काठके विज्ञायते ॥ ५ ॥ अथाप्युदाहरन्ति । पाति त्राति च दातारमात्मानं चैव किल्विषात् । वेदेन्धनसमृद्धेषु हुतं विप्रमुखाग्निषु ॥ ६ ॥ न स्कन्दते न व्यथते नैनमध्यापतेच्च यत् । वरिष्ठमग्निहोत्रात्तु ब्राह्मणस्य मुखे हुतम् ॥ ७ ॥ ध्यानाग्निः सत्योपचयनं क्षान्त्याहुतिः स्रुवं ह्रीः पुरोडाशमहिंसा संतोषो । यूपः कृच्छ्रं भूतेभ्योभयदाक्षिण्यमिति कृत्वा क्रतु मानसं याति क्षयं बुधः ॥ ८ ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीवनाशा धनाशा च जीर्यतोपि न जीर्यति ॥ ९ ॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । यासौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखमिति ॥१०॥ XXX. 5. कावे विज्ञायते H. 6. याति E. 7. नैनमध्याचते च यः B. Ban. ed. न बिनश्यति कर्हिंचित् Manu VII., 84. नैवमभ्यापतेच्च यः F. 8. क्षान्त्यापुष्टि B. Ban. ed.