वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 100, कुल 296 में से
संदर्भ में पढ़ें64 वास्तुमण्डनम् सिंहासने शुभः सिंहः सिंहद्वारे नृपालये। यन्त्रे युद्धगृहे शस्त्रे कवचे बन्धनालये ॥ १८ ॥ श्वानोपजीविनां १३स्थाने वेश्याम्लेच्छांत्यजालये। भण्डमातङ्ग१४चण्डाल१५मलस्थानेषु शस्यते ॥ १९ ॥ वृषो हट्टेषु संयोज्यो धान्यभोजनमन्दिरे। वणिग्गृहेऽश्वशालायां भाजने भोजनस्य च ॥ २० ॥ चतुर्विधेषु वाद्येषु नट१६प्रेरणकादिषु । वेश्याकुलालरजके खरस्तज्जीविनां हितः ॥ २१ ॥ गजं दद्यात् गजस्थाने तत्र सिंहं तु वर्जयेत्। १७राजक्रीडास्पदारामराजपत्नीनिकेतने ॥ २२ ॥ आसने शयने याने गजो योज्योऽङ्गनागृहे। ध्वांक्षो न शोभनोऽप्यायः कम्बिकायां शुभो मतः ॥ २३ ॥ मठशिल्पपतिस्थाने १८शस्यते पक्षिणां गृहे। मूर्त्तौ लिङ्गे ध्वजे छत्रे दैर्घ्य आयादिकल्पना ॥ २४ ॥ १९विस्तारायामगणना तामन्यत्र प्रकल्पयेत्। रुद्रभागायते चक्रे कृते पञ्चाशविस्तरे ॥ २५ ॥ ऊर्ध्वपंक्तौ क्रमात् कोष्ठेष्विन्द्रे(१४) धिष्ण्य(२७) द्वि(२)भास्करान्। तिथ्य(१४)ष्ट(८) वेद(४) रामे(३) षू राग(६) नन्दा(९)न्समालिखेत् ॥ २६ ॥ १३. श्वानो - in B १४. चांडाल - C, D, E १५. DE give note खातागाड १६. प्रेक्ष - in C १७. E gives note राजगद्दी १८. दास्यते - in A १९. A omits V 25 ab.