भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 108, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 108

72 वास्तुमण्डनम् ईशानात्कृत्तिकादीनि सस सस प्रदक्षिणे । धिष्ण्यानि यत्र गेहर्क्षं ज्ञेयस्तत्रैव चन्द्रमाः ॥ ५२ ॥ अग्रतः स हरेदायुः पृष्ठतस्तु धनं हरेत् । वामदक्षिणतश्चन्द्रो धनधान्यकरो गृहे ॥ ५३ ॥ इति चन्द्रः ॥ प्रीतिस्तु षड्विधाः तासामुत्तमा समसप्तमी । तृतीयैकादशी वृद्धयै पुष्यै दशचतुर्थिका ॥ ५४ ॥ २७षड्वाष्टकम् त्रिकोणञ्च गृहं द्विद्वादशं त्यजेत् । मरणं कलहो हानिस्तस्मात्प्रीतित्रयं त्यजेत् ॥ ५५ ॥ राशेर्मैत्री हरेद्वैरं २८ग्रहजं ग्रहजा पुनः । मैत्री राशेर्विरुद्धत्वं नाडिवेधं त्यजेत्सदा ॥ ५६ ॥ विप्र-क्षत्रिय-विट्शूद्रा मीनाद्या राशयः क्रमात् । स्वामिनोऽधिकवर्णं हि गृहं सौख्यकरं न हि ॥ ५७ ॥ ब्राह्मणे सकला राज्ञि प्रशस्ता २९नवराशयः । षट् वैश्येऽथ त्रयः शूद्रे स्वामिराशेः क्रमोऽप्ययम् ॥ ५८ ॥ गृहस्थः गृहयोः स्वामिवैरं मैत्रीं विलोकयेत् । दुष्टे प्रीतिर्विलोकया सा सुप्रीतौ तां न चिन्तयेत् ॥ ५९ ॥ षष्ठिघ्नं भवनस्य र्क्षं पञ्चत्रितनुभिर्भजेत् । शेषे मेषादिको राशिः प्रोक्तः कैश्चिन्नवांशके (कैः ?) ॥ ६० ॥ अश्विन्याद्यं त्रिकं मेषे सिंहे ज्ञेयम् मघात्रयम् । मूलादित्रितयं चाये शेषाणि नवराशिषु ॥ ६१ ॥ इति राशिमैत्री ॥ २७. षट्का In B, D, E षद्वा In C २८. गृहजं In A २९. E gives note - ५ । ६ । ७ । ९ । १० । १२ । २ । ३ । ६ । २ । १० । ७ । ९ । ३ । ३ । ७ । १२