वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 110, कुल 296 में से
संदर्भ में पढ़ें74 वास्तुमण्डनम् ३०सिंहस्याधिपतिः सूर्यश्चन्द्रमाः कर्कटाधिपः । मेषवृश्चिकयोर्भौमः कन्यामिथुनयोर्बुधः ॥ ६२ ॥ धनुर्मीनपति३१र्जीवः शुक्रो वृषतुलाधिपः । शनिर्मकरकुम्भेशः कन्या राहुगृहं भवेत् ॥ ६३ ॥ चन्द्रार्कभौमजीवाश्च शुक्रज्ञशनिराहवः । चत्वारोऽन्योन्यमित्राणि शत्रवस्ते परस्परम् ॥ ६४ ॥ रविमन्दे भवेद्वैरं तथैव कूजमन्दयोः । सोमस्य सूर्यपुत्रस्य महद्वैरं परस्परम् ॥ ६५ ॥ इति ग्रहमैत्री ॥ भवनस्योदयं क्षेत्रफलेन गणयेत्सुधीः । वसुभिर्विभजेच्छेषोऽधिपतिः ससमः शुभः ॥ ६६ ॥ यद्वा ३२व्ययाय संयोगे यदैक्यं वसुभिर्भजेत् । शेषस्त्वधिपतिः कैश्चिद्विषमः स भयावहः ॥ ६७ ॥ विकृतः कर्णकश्चैव धूम्रदो वितथेश्वरः । बिडालो दुन्दुभिश्चैव दन्तः कान्तोऽधिनायकाः ॥ ६८ ॥ इति अधिनायकाः ॥ फलमष्टगुणं कृत्वा षष्ट्या भक्तेऽवशिष्टकम् । पञ्चभिर्विभजेच्छेषं तत्वं स्यात्पार्थिवादिकम् ॥ ६९ ॥ पृथिव्यापोऽनलो वायुराकाशमिति पञ्चभिः । गृहस्यायुषि सम्पूर्णे विनाशो भवति ध्रुवम् ॥ ७० ॥ ३०. Similar verses in Apārājita pṛchhā ch 65 v. 26. ३१. जीवि in B ३२. भयाम - in D, E