वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 112, कुल 296 में से
संदर्भ में पढ़ें76 वास्तुमण्डनम् जीर्णं ३३भवति भूतत्वे तोयाग्न्योस्तद्भवं भयम्। वायौ रोगस्तथाकाशे शून्यतामेति मन्दिरम्॥ ७१ ॥ इति पञ्चतत्वानि॥ प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम्। नाडि३४वेधमतं श्रेष्ठं शुभं वेधविवर्जितम्॥ ७२ ॥ एकनाडिगता यत्र गुरूमन्त्राश्च देवताः। तत्रोद्वेगं रुजं मृत्युं क्रमेण फलमादिशेत्॥ ७३ ॥ सेव्यसेवकयोश्चैव गृहं तत्स्वामिनोरपि। परस्परं मित्रयोश्च एकनाडिः प्रशस्यते॥ ७४ ॥ आद्यांशेन तुरीये स्याद्द्वितीयेन तृतीयके। तृतीयेन द्वितीये च चतुर्थेनादिमे वेधः॥ ७५ ॥ इति नाडीवेधविधिः॥ आयर्क्षं व्यय तारांशाधिपं क्षेत्रफले क्षिपेत्। अर्के भक्ते भवेल्लग्रमथ लग्नेऽष्टसंगुणे॥ ७६ ॥ हृते शरैःकैः शेषं तु तिथिर्नाम समं फलम्। तिथौ नवघ्ने वारः स्यादर्काद्यो मुनिभिर्हृते॥ ७७ ॥ इति लग्नतिथिवाराः॥ सुपर्ण ओतुः सिंहः श्वा सर्पाखुमृगमेढकाः। वर्गाधिपः क्रमादष्टौ भक्ष्यो यः पञ्चमो मतः॥ ७८ ॥ इति वर्गप्रीतिः॥ ३३. पतति - A, B, D, E ३४. तदद्दितं - in B C, तदादितं - in D, तददितं - in E