भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 114, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 114

78 वास्तुमण्डनम् स्ववर्गं परवर्गं च क्रमेण क्रमतो लिखेत्। एकवर्गे च वर्गाङ्कमष्टभिर्भाजिते स्थितम् ॥ ७९ ॥ ३५तदर्धे तं विंशोपाः स्युर्दैयास्ते प्रथमेन हि। स्व सम्बन्धे गृहे ग्रामे लाभालाभे विचिन्तयेत् ॥ ८० ॥ इति विंशोपाः ॥ मयस्य च मतांद्वारतिथ्यानयनमुच्यते। ३६दैर्घ्यैकघ्ने पृथग्भागैः सप्तभिस्त्रिंशता हृते ॥ ८१ ॥ शेषाः सूर्यादयो वारास्तिथयो युग्मपक्षजाः। भौमार्कौ च तिथी रिक्ता यमो३७त्पातौ मृतिं त्यजेत् ॥ ८२ ॥ आयादिकल्पना सप्तदशाङ्गे सर्वसौख्यदा। सा तु प्राज्ञैर्विना नाल्पैर्दिवसैर्युज्यते गृहे ॥ ८३ ॥ ३८ततस्त्रिपञ्चसप्ताङ्गैरङ्गैः कार्यं गृहं बुधैः। श्रीविश्वकर्मणाप्युक्तं हीनदोषं गुणाधिकम् ॥ ८४ ॥ आयार्क्षव्यतारांशेन्दुशशिग्रहं सौहृदम्। आयुस्तैस्त्रिशराद्यंकैः फलमङ्गैः यथोत्तरम् ॥ ८५ ॥ इति सूत्रधारमण्डनविरचिते वास्तुमण्डने वास्तुशास्त्रे आयाधिकारो द्वितीयोऽध्यायः ॥ ३५. नाडिविद्धं मतं श्रेष्ठं न शुभं वैद्यवर्जितम् - in B ३६. दैर्घ्यं कुघ्नं In D, E ३७. सान्तं in B, त्पातं in CDE ३८. एतात्रिपञ्च - In D, E