वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 118, कुल 296 में से
संदर्भ में पढ़ें82 वास्तुमण्डनम् तदूर्ध्वं कपिशीर्षाणि वसुमात्रान्तराणि च। दैर्घ्ये सार्धं द्विहस्तानि पिण्डे हस्तमितानि च॥ १०॥ कन्यसं नगरं राज्ञां हस्तैर्वेद सहस्रकैः। मध्यमं द्विगुणं तस्मान्मध्याद्द्विगुणमुत्तमम्॥ ११॥ तुल्यं ३वाष्टांश पादांश सार्धार्शैदैर्घ्यतोऽधिकम्। चतुर्विधं भवेदेकं सर्वाणि द्वादशैव हि॥ १२॥ षट्त्रिंशत्प्रथमे दुर्गे देवस्थानानि चत्वरे। षण्णां वृद्ध्या क्रमेणैव द्वादशैर्द्धयधिकं शतम्॥ १३॥ मध्ये राजगृहं कार्यं वामदक्षिणतोऽग्रतः। चत्वराः शोभिता हट्टैः पृष्ठभागे जलाशयाः॥ १४॥ फलानि नानाविधदेशजानि क्रयाणकानीह विचित्रकाणि। ताम्बुलपुष्पाम्बरमौक्तिकादि राज्ञो गृहाग्रेऽथ सुरस्य कुर्यात्॥ १५॥ पुरं प्रतोलीखटकीकपाटैर्दृढं विधेयं धनधान्यपूर्णम्। संग्रामयन्त्रैर्विविधैर्भटैश्च सुरक्षकैः सर्वसमृद्धियुक्तम्॥ १६॥ व्यासायामे कनिष्ठं तु नगरं वसुभिर्भजेत्। मध्यमं सूर्यभागैस्तु षोडशांशैस्तथोत्तमम्॥ १७॥ रेखासु ते प्रतिदिशं मार्गास्तत्र नवावरे। त्रयोदश पुरे मध्ये ज्येष्ठे सप्तदशै ४वहिः॥ १८॥ हट्टमार्गस्त्रिधा प्रोक्तो विंशत्यर्ककलाकरैः। हीनाधिकस्तु कर्तव्यो भूमिभागविशेषतः॥ १९॥ ३. चा - In A ४. चहि - In A