भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 120, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 120

84 वास्तुमण्डनम् दुर्गे भूमिवशात्कार्या हट्टमार्गजलाशयाः । सर्वत्र राज्ञ आदेशात्प्रासादभवनादिकम् ॥ २० ॥ कोष्ठे विद्याधरी बाह्या ५द्विहस्तान्यधिकोदयौ । गूढं युद्धासनं कोष्ठे तस्यां वा कारयेत्सुधीः ॥ २१ ॥ गढमध्ये चतुर्दिक्षु मार्गं कुर्यात्प्रदक्षिणम् । तत्र दुर्गे भवेद्रक्षा गजवाजिपदातिभिः ॥ २२ ॥ तन्मार्गान्मध्यदेशे तु गृहाणि विनिवेशयेत् । दृढानि पुरगोतृणां परेषां द्वेषिणामपि ॥ २३ ॥ ब्राह्मणान्वासयेत्प्राच्यां क्षत्रं याम्योत्तरे विशः । वापीकूपादिवारुण्यामुत्तरस्यां तु शूद्रकान् ॥ २४ ॥ शिल्पिरङ्गकरानीशे वह्नौ तज्जीविनोऽन्त्यजान् । नैर्ऋत्ये शौण्डिकान् वेश्यां वायव्ये लुब्धकादिकान् ॥ २५ ॥ वराहः ॥ कोणेषु वसतां दोषाः पुरग्रामगृहादिषु । तेष्वेव वृद्धिमायाति अन्त्यजाः श्वपचादयः ॥ २६ ॥ ईशकोणे न्यसेत्सूर्यं वह्निकोणे गणाधिपम् । नैर्ऋत्ये च सहस्राक्षं वायव्यां तु जनार्दनम् ॥ २७ ॥ पूर्वापरमुखादेवा कार्या न दक्षिणोत्तराः । नगराभिमुखा श्रेष्ठा भङ्गदास्ते पराङ्मुखाः ॥ २८ ॥ गणेशो भैरवश्चण्डी नकुलीशो ग्रहस्तथा । मातरोमूर्त्तयो देव्याः शुभा दक्षिणदिङ्मुखाः ॥ २९ ॥ हनुमान्वानरः श्रेष्ठो नैर्ऋत्यादिमुखो भवेत् । गणेशो धनदो लक्ष्मीः पुरद्वारे सुखावहाः ॥ ३० ॥ ५. हस्ताल्य - In A, हस्ताम्य - In D E

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक) · पृष्ठ 120, कुल 296 में से · BharatKosha