भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 122, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 122

86 वास्तुमण्डनम् वृत्तं वृत्तायताष्टास्रे अष्टपत्रं यवाकृतिः । स्वस्तिकं पुरुषाकारं दुर्गमित्यादौ सौख्यदम् ॥ ३१ ॥ एक द्वि शकटाकारं त्रिकोणं रसकोणकम्। वज्रत्रिशूलभुजगाकारं कर्णाधिकं त्यजेत् ॥ ३२ ॥ नगरं शोभितं कार्यं हट्टप्राकारगोपुरैः । प्रसादभवनोद्यानकीर्तिस्तम्भजलाशयैः ॥ ३३ ॥ पुरार्धेन भवेद्ग्रामो ग्रामार्धेन तु खेटकम्। खेटकार्धेन कूटं स्यात्कूटार्धेन तु कर्वटम् ॥ ३४ ॥ पुरे ग्रामे क्रमान्मार्गाः खेटे कूटे च कर्वटे । कार्या सप्तदशाङ्केषु त्रिद्विसंख्या दिशं प्रति ॥ ३५ ॥ इति दुर्गनगरादिलक्षणम् ॥ दुर्गाणां रक्षणार्थाय यन्त्राः कार्या यथाविधिः । भवन्ति जयदा राज्ञां मद्य^६मांसादिपूजिताः ॥ ३६ ॥ देवास