वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 124, कुल 296 में से
संदर्भ में पढ़ें88 वास्तुमण्डनम् यस्य रुद्रकरैर्यष्टी गजभीमः स उच्यते। अर्कहस्तायता यस्य स यन्त्रो युग्मभैरवः ॥ ४१ ॥ त्रयोदशकरैर्वह्निर्यमदण्डश्चतुर्दश । तिथिहस्तो महारौद्र इत्यष्टौ भैरवा मताः ॥ ४२ ॥ मर्कटी भैरवाख्यस्य त्रिकरा मध्यतः शुभाः। द्वात्रिंशदङ्गुलां यष्टीं तस्या पृष्ठे तु कारयेत् ॥ ४३ ॥ पिण्डे षडङ्गुला यष्टी पृष्ठे व्यासे कलाङ्गुलाः । अग्रे वेदाङ्गुला ‘पृष्ठे कर्तव्या दृढकाष्ठजाः ॥ ४४ ॥ पृष्ठे छिद्रं तु यष्ट्याश्च मध्याद्भेदाङ्गुलं भवेत्। मर्कटी सुदृढा पिण्डे कर्त्तव्याऽष्टाङ्गुला समा ॥ ४५ ॥ लोहेन चर्मणा यष्टीं मर्कटीं कारयेद्दृढाम्। अग्राङ्गुली ‘प्रकर्त्तव्येत्वष्टमात्रे सुलोहजे ॥ ४६ ॥ गोः फणा वसुहस्ता च दैर्घ्ये सूत्रदुकूलजाः । फणा कलाङ्गुला व्यासे दैर्घ्य तद्विगुणा मताः ॥ ४७ ॥ नखाङ्गुला वा कर्तव्यो बाहुपाषाणवाहने । पञ्जरं त्रिकरं दैर्घ्ये वेदाङ्गुलिसमन्वितम् ॥ ४८ ॥ मर्कट्यङ्गे द्विहस्तं च पृथुत्वे(ऽ)ब्धिषडङ्गुलम् । द्वौ स्तम्भौ पञ्जरस्यापि कुलिन्दाख्यौ प्रकीर्त्तितौ ॥ ४९ ॥ मूर्ध्नि छिद्रे तयोर्यष्ट्याः पृष्ठछिद्रे इषु क्षिपेत्। दृढां धातुमयीं कीलां पञ्जरस्यावलम्बने ॥ ५० ॥ पञ्जरं पूरयेद्धातुपाषाणैर्यन्त्रवाहने । सुदृढं कीलकै पट्टी चर्मभिः कारयेदिदम् ॥ ५१ ॥ ८. पिंडे - In A ९. कर्तव्या अष्ट - In A