भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 126, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 126

90 वास्तुमण्डनम् स्तम्भास्तु षट्करा १०व्यासे दैर्घ्ये मूर्ध्नि त्रिहस्तकाः । ऊर्ध्वे द्विभागौ त्र्यंशोऽधस्तत्रोत्पलनिवेशनम् ॥ ५२ ॥ ऊर्ध्ववेल्लनिका तेन समापिण्डे युगाङ्गुलाः । दशाङ्गुलान्तरे चान्या कर्त्तव्या चक्रवेल्लनी ॥ ५३ ॥ चक्रवेल्लनिकामध्यादशीत्यङ्गुलनिर्गमा । चक्रमानं द्विहस्ता तु पादोन त्रिकरावधिः ॥ ५४ ॥ ऊर्ध्ववेल्लनिकाधस्तात्प्रान्ते लोहस्य कीलिका । दक्षे कलाया रक्षार्थं ततो बन्धविमोक्षणम् ॥ ५५ ॥ ज्योतिका रक्षकं मध्ये कारयेत्कीलकं पुनः । पार्श्वयोर्ध्ववेल्लन्यां तनिकाकर्षणाय च ॥ ५६ ॥ विनाभ्यासेन सर्वेषां केवलं निष्फलः श्रमः । तस्मादभ्यसतो लक्ष्यादखिलं प्राप्यते गुरोः ॥ ५७ ॥ वाहयेत्प्रथमं शून्यं द्वितीये निक्षिपेद्बलिम् । तृतीये माहिषं मुण्डं चतुर्थे गोलकं क्षिपेत् ॥ ५८ ॥ तत्र भैरवभैरव्योः पूजा कार्या सदा नृपैः । रक्तादिपुष्पैर्नैवेद्यैर्मद्यमांसै११र्जयार्थिभिः ॥ ५९ ॥ १२दैर्घ्ये मन्वङ्गुलं प्रोक्तं व्यासायामे षडङ्गुलम् । यन्त्रैर्हस्तमिते कैश्चित् कार्यं युक्त्या सुपञ्जरम् ॥