भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 130, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 130

94 वास्तुमण्डनम् पृष्ठछिद्रेऽग्निसंयोगाद्गोलाद्यं याति दूरतः । पुरप्राकारगेहादि ग्रामारामविमर्दनम् ॥ ७४ ॥ रिपूणां ते प्रकुर्वन्ति सैन्ये त्रासं च दारुणम् । राज्ञा जयकरा एते वह्नियन्त्रा अनेकशः ॥ ७५ ॥ विबुधैर्विहिताः पूज्याः पक्वान्नमदिरामिषैः । हव्यवाहनलीवांशी चर्मनद्धाद्विमुष्टिकाः ॥ ७६ ॥ दैर्घ्यं कार्यार्धदैर्घ्यस्य चतुर्थांशेन विस्तरा । ईषदार्द्रेण सूक्ष्मेण पूरयेदौषधेन ताम् ॥ ७७ ॥ कुट्टयित्वा मुहुस्तस्यारिक्तमेकांगुलं मुखम् । औषधार्धेन पृष्ठे स्याद्रन्ध्रं वह्नेर्यवप्रभम् ॥ ७८ ॥ एकद्वित्र्यङ्गुलैकं बां [वांशं ?]सरलामत्र तोलयेत् । सूर्योरुबुकसिंहस्य निर्वाणाङ्गारचूर्णकम् ॥ ७९ ॥ अग्रियन्त्रौषधार्थं तु गृहीतव्यं यथोदितम् । पञ्चषट्सप्तचाष्टौ वा भागाश्चेति शिलाजतः ॥ ८० ॥ गन्धस्यैकक्रमाच्चूर्णं सार्धं सार्धद्वियुग्मकम् । तद्भेषजस्य मार्गोऽयं भेदा अन्येऽप्यनेकशः ॥ ८१ ॥ वह्निसंयोगतस्तेषां दृश्यते बहुधा गतिः । गैरेयं द्विगुणं गन्धात्कुर्यात्तोयेन गोलिकाम् ॥ ८२ ॥ हव्यवाहा मुखे तारा वैरिणां पुरदाहकाः ॥ ८३ ॥ इति अग्रियन्त्रलक्षणम् ॥