वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 132, कुल 296 में से
संदर्भ में पढ़ें96 वास्तुमण्डनम् अथ जलाशयाः ॥ युधिष्ठिरं प्रति श्रीकृष्णवाक्यम् ॥ वरं वर्षशतेनापि कृतैकाविहरी वने । नासञ्चिता गृहे कोटीक्षणध्वंसि धनस्य हि ॥ ८४ ॥ सर्वस्वेनापि कौन्तेय भूमिस्थमुदकं कुरु । कुलानि तारयेत्सप्त यत्र गौर्विटृषी भवेत् ॥ ८५ ॥ नन्दाभद्राजयावापी विजया च क्रमाद्युताः । त्रिषठनवार्ककूटैः स्युरेकद्वित्रिचतुर्मुखैः ॥ ८६ ॥ कूपाः स्युर्वेदहस्तादि दशहस्तान्तविस्तराः । श्रीमुखो विजयः प्रान्तो दुन्दुभिश्च १४मनोहरः ॥ ८७ ॥ चूडामणिश्च दिग्भद्रो जयो नन्दनशङ्करौः । कुण्डं युगास्रं भद्रं स्यात्सुभद्रं भद्रसंयुक्तम् ॥ ८८ ॥ प्रतिभद्रैर्युतं नन्दं परिघं मध्यभिट्टवत् । शतान्तमष्टहस्तादि चतुर्द्वाराणि कारयेत् ॥ ८९ ॥ मध्यभिट्टे च शालासु देवार्चास्तत्र विन्यसेत् । सरोनामार्धचन्द्राभं वृत्ताकारं महासरः । चतुरस्रं तु भद्रं स्यात्सुभद्रं भद्रसंयुक्तम् ।।९० ।। अथ उद्यानम् ॥ आरामकारकोनाके वसेदिन्द्रायुतत्रयम् ॥ ९१ ॥ शूराणां पूजनं भोगः प्रीणनं प्राणिनां ततः । पुरादिमध्ये बाह्ये वा कुर्यादुद्यानमुत्तमम् ॥ ९२ ॥ १४. नमोहरः - In D