वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 136, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः [ गृहादिनिवेशः ] गृहं हि सर्वजन्तूनां लयस्थानं सुखास्पदम्। त्रिवर्गसाधनं पुण्यमिष्टापूर्तप्रवर्त्तकम्॥ १॥ शीतवाताम्बुघर्मादि दुःखघ्नं मुनिभिर्मतम्। वाटभित्तं पुरा कृत्वा तन्मध्ये कारयेद्गृहम्॥ २॥ चतुर्हस्तं गृहं व्यासे प्रोक्तं श्रीविश्वकर्मणा। द्वात्रिंशत्करपर्यन्तं ततो दैर्घ्येऽपि तत्समम्॥ ३॥ साष्टमांशं सपादं वा सार्धं वा द्विगुणावधिः। विस्तारादधिकं दैर्घ्यं श्रेष्ठं व्यासे भयावहम्॥ ४॥ द्वात्रिंशत्कर¹विस्तीर्णं भवेद्ब्राह्मणमन्दिरम्। प्रत्येकं क्षत्रियादीनां चतुर्हस्तैर्विहीनकम्॥ ५॥ दशाष्टत्रिचतुर्भागैरायामे क्रमतोऽधिकम्। एतन्मूलगृहं प्रोक्तं तद्वाह्ये वाटभित्तिका॥ ६॥ प्राकारकोटभित्तीनां प्रमाणं तु यदृच्छया। मध्यक्षेत्रे प्रकर्त्तव्यमायव्ययविशोधनम्॥ ७॥ सर्वक्षेत्रान्तरे शालालिन्दकोष्ठादिनिर्मितः। कार्या पुत्रधनक्रीडाभोजनादिकं सन्ततेः॥ ८॥
१. विस्ताद्रं in B विस्तारं in CDE