भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 138, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 138

102 वास्तुमण्डनम् द्वात्रिंशत्करतो ग्रामभूमिभागं विशेषतः । गृहाणि भूपतीनां स्युर्यावदष्टोत्तरं शतम् ॥ ९ ॥ व्यासे हस्तैः समं राज्ञां गृहं दैर्घ्ये च पूर्ववत् । दृढं मनोहरं कुर्यादनेकाकारसंयुतम् ॥ १० ॥ महाराजगृहात् पुत्रमन्त्रिसामान्यभूभृताम् । हस्तैर्हीनान् गृहान्कुर्यात्तेषां युक्तिवशात्सुधीः ॥ ११ ॥ पुरस्य २षोडशांशेन मध्ये कोटं ३सुनिश्चलम् । तन्मध्ये भवनं राज्ञः कलशध्वजभूषितम् ॥ १२ ॥ अष्टवर्गा अकाराद्याः पूर्वादिक्षु प्रदक्षिणे । स्थितास्तत्र गृहाणि स्युर्वर्णिणां नगरादिषु ॥ १३ ॥ गरुडस्त्वथ मार्जारः सिंहः श्वा सर्पमूषकौ । मृगो मेढ्रश्च वर्गेशा वैरी यो यस्य सन्मुखः ॥ १४ ॥ दीपाम्नायः ॥ दीपाम्नाये अकाराद्यान्मध्याद्वर्गान् क्रमाल्लिखेत् । स्वरान्षोडशमध्ये तु क्षमीशानस्य कोष्ठके ॥ १५ ॥ स्ववर्गं मन्दिरे कुर्याद्दीपस्थानं तदेव हि । मन्त्रादिसाधनं तत्र सिद्धयेऽन्यत्र निष्फलम् ॥ १६ ॥ देशदीपे पुरं कुर्यात्पुरदीपे च मन्दिरम् । मन्दिरे शयनाद्यं च प्रोक्तमागमकोविदैः ॥ १७ ॥ वास्तुक्षेत्रं यथायोग्यं चतुरस्रं तथायतम् । षडस्रमष्टकोणं च वर्तुलं वर्तुलायतम् ॥ १८ ॥ २. षोडरगंशन in B ३. सुनिश्चयम् in DE