भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 140, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 140

104 वास्तुमण्डनम् राज्ञां द्विजानां ⁴वेद्वास्तं न कार्यं क्षत्रियादिषु। एकशालादितो गेहं दशशालावधि स्मृतम् ॥ १९ ॥ वर्णानां वेदशालान्तं दिक्शालान्तं तु ⁵भूभृताम्। शाला व्यासे चतुर्हस्तात्तस्मान्नखकरावधिः ॥ २० ॥ साष्टमांशा सपादा वा सार्धा वाप्यायता मता ॥ २१ ॥ अपराजिते ॥ विस्तरे विंशतिर्हस्ता द्विरष्टाष्टादशापि वा। चतुर्हस्तोदये शाला रङ्गभूपलकान्तरे ॥ २२ ॥ ⁶मयमते ॥ चतुर्हस्तादितः शाला व्यासे जिनकरावधिः। सार्धान्तमायता न णां सुराणामधिकापि सा ॥ २३ ॥ इति। शालां त्रिपञ्चसप्ताङ्कैर्विभागैः प्रविभाजयेत्। एकद्वित्रियुगांशैस्तु समानोऽलिन्द इष्यते ॥ २४ ॥ तथा च। त्रिहस्तात् षट्करं यावल्लघोर्मानमुदाहृतम्। श्रीविश्वकर्मणा तस्मात्प्रकर्तव्यं यथोचितम् ॥ २५ ॥ प्रस्तारेण समुत्पन्नं तद्गेहं स्वामिनोरपि। प्रीतिः परस्परं योज्या मण्डपाद्यं ततो बहिः ॥ २६ ॥ ४. वेदास्त्रं in BCDE ५. भूभुजाम् in B ६. यममते in B