वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 142, कुल 296 में से
संदर्भ में पढ़ें106 वास्तुमण्डनम् शालायाः विस्तरात्सार्धा त्रिभागेनांशतोऽपि वा । पट्टशाला भवेत् श्रेष्ठा व्यासे कैश्चित्समा मता ॥ २७ ॥ पट्टशाला प्रकर्त्तव्या गूढजालकसंयुता । प्रकाशा भद्रयुक्ता वाऽथवा पट्टत्रयानना ॥ २८ ॥ गूढाग्रे मण्डपं कुर्यान्मध्यआच्छादनं विना । पट्टशालाश्चतुर्दिक्षु आद्यालिन्दानुसारतः ॥ २९ ॥ ⁷वेदिकासनपट्टैश्च मत्तवारणतोरणैः । भद्रजालक ⁸उत्साद्यैः कर्तव्या द्विभूमिकाः ॥ ३० ॥ मण्डपाग्रे मुखद्वारं तस्योपरि सुशोभनम् । द्वित्रिभूमं गृहं कुर्यान्माड⁹मुखा गवाक्षकैः ॥ ३१ ॥ सर्वक्षेत्रे प्रकर्त्तव्या गवां गायादिकल्पना । आय एव पृथक् मध्यक्षेत्रे भित्यन्तरे भवेत् ॥ ३२ ॥ भाण्डागारोऽष्टषष्ट्यन्तं समः सार्धान्तमायतः । महानसं तु लोकानां चतुर्हस्तं नवान्तकम् ॥ ३३ ॥ धनधान्यालयं कुर्यात्तिथ्यन्तं पञ्चहस्ततः ॥ ३४ ॥ मयः ॥ अन्नालयं ह्यतिनतमप्युच्चं स्याङ्गनालयम् । तथैव दक्षिणागारमतिनीचं सुखालयम् ॥ ३५ ॥ इति गृहनिवेशः ॥ १०सृष्ट्या प्रवेश उत्सङ्गः प्रतिकायोऽपि सव्यतः । वामावर्तो हीनबाहुः पूर्णबाहुस्तु सन्मुखः ॥ ३६ ॥ ७. वेदिका in B ८. सुधाद्यैः in A ९. मूषा in B १०. Similar verbs are seen in A.P ch 83. V 11-12