भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 148, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 148

112 वास्तुमण्डनम् अपराजितः क्षेत्रेऽङ्कभक्ते १६तुर्यांशे द्वारं वामे दिशि न्यसेत्। इन्द्रे गृहक्षते पुष्पदन्ते भल्लाटके क्रमात् ॥५५॥ पृष्ठे द्वारे भवेद्रोगः कुक्षौ शोको महद्भयम्। उपद्वारं न्यसेत्क्षेत्रे भक्ते नव नवांशकैः ॥५६॥ जयन्ते इन्द्रे आदित्ये तथा सत्ये भृशेऽम्बरे। पुष्णि वा १७वितथे गृहक्षते गन्धर्वभृङ्गयोः ॥५७॥ मृगे पितृषु च द्वास्थे सुग्रीवपुष्पदन्तयोः। वरुणो मुख्यभल्लाट सोमादिति दितिष्वपि ॥५८॥ गवाक्षजालयोर्द्वारं शालाद्वाराधमुन्नतम्। द्वारे त्रिभक्ते द्व्यंशं वा सर्वेषां सुसमं शिरः ॥५९॥ द्वारोर्ध्वं द्वारमाद्येन समं सङ्कीर्णमेव वा। गृहादीनां मुखात्पूर्वं भ्रमणं द्वारसंयुतम् ॥६०॥ षोडशांश१८मधः शस्तमन्यथा तन्न चिन्तयेत्। शालामानात्प्रतोली त्रिचतुःपञ्चगुणेन्तरे ॥६१॥ तिथिहस्तसमुत्सेधा प्रतोली तूत्तमा मता। त्रयोदशकरामध्या रुद्रहस्ता कनीयसी ॥६२॥ विस्तारस्तु क्रमात्तासामष्टसप्तरसैः करैः। त्रिद्व्येकभूमिका युक्ता अनेकरचना चिताः ॥६३॥ कपाटं दक्षिणे भागे गृहे वामे शुभार्गला। कपाटयुग्मं पिण्डेन शाखापिण्डार्धसंमितम् ॥६४॥ १६. कुर्यांशे in BC १७. पितथे in B १८. भवः in B