भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 150, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 150

114 वास्तुमण्डनम् कपाटस्य तु पिण्डेन सन्धिपालास्तु कारयेत्। मध्ये यः सन्धिपालस्तु सार्धसंमितविस्तरः॥ ६५ ॥ सुद्रव्यं सुस्थितं कान्तं स्वदिग्भागे प्रयोजयेत्। न विद्रुतं कृशं मध्ये नाध्मातं नातिपीडितम्॥ ६६ ॥ न कुब्जं न बहिर्यातं न ह्रस्वं न तथोच्चकैः। वक्रं नान्तर्गतं श्रेष्ठं तद्द्वारं सर्ववास्तुषु ॥ ६७॥ उपर्युपरि भूमीनां द्वारं कुर्यात्प्रदक्षिणम्। नापसव्येन कुर्वीत द्वारमारोहणानि च॥ ६८ ॥ तन्मध्ये सद्मनो द्वारं कुर्याद्दैवपदस्य च। न शूले न पदेनापि शिरापाते तदिष्यते॥ ६९ ॥ रथ्याचत्वरशृङ्गाटप्रासादप्रतिमाध्वजैः। वापीकूपप्रणालादि सरःप्रस्रवणभ्रमैः॥ ७० ॥ कुड्यकोणतरुस्तम्भद्वारपट्टतुलादिभिः। दरोत्कटवल्मीकपङ्ककीलांत्यजालयैः ॥ ७१ ॥ शिरामर्मादिभिर्विद्ध द्वारं स्याद्बहुदोषदम्॥ ७२ ॥ तथा च ॥ द्वारद्रव्यैस्तुलास्तम्भनागदन्तगवाक्षकैः। द्वारमध्येऽर्दिते रोगकुलपीडाधनक्षयाः ॥ ७३ ॥ निरन्तरस्थितैर्द्रव्यैस्तिर्यक्क्रान्तैश्च मन्दिरे। मर्मवेधो न दोषाय द्वारवेधोऽथवा क्वचित्॥ ७४ ॥ न प्राकारान्तरे वेधोऽथराजमार्गान्तरेऽपि। न स्तम्भपट्टादिवेधस्तु न भित्यन्तरतो भवेत्॥ ७५ ॥

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक) · पृष्ठ 150, कुल 296 में से · BharatKosha