वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 152, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 152
116 वास्तुमण्डनम् उदयाद्द्विगुणां भूमिं त्यक्त्वद्य वेधो न जायते ॥ ७६ ॥ अथ गृहोदयः ॥ गृहव्यासकलांशस्तु युगैः सार्धं त्रिभिस्त्रिभिः । करैः समेत पट्टाध उदयस्त्रिविधो गृहे ॥ ७७ ॥ त्रिधा स पुनरैककस्तत्र ज्येष्ठोदयोऽङ्गुलाः । विंशत्यष्टादशकलाङ्गुलैः षण्णवतिर्युताः ॥ ७८ ॥ धिष्ण्यप्रकृतितिथ्यंशैर्युगाशीत्यङ्गुला युताः । मन्दिराणां यथायोग्यमुदयो मध्यतस्त्रिधा ॥ ७९ ॥ १९भैकविंशतितिथ्यंशैर्युता मात्रा द्विसप्ततिः । उदयः कन्यसे त्रेधा योजनीयो यथोचितम् ॥ ८० ॥ पञ्चभक्ते गृहोत्सेधे एकभागेन वेदिका । मत्तवारणमेकांशं तृतीयांशे न तं शुभम् ॥ ८१ ॥ गृहोदयेऽष्टभिर्भक्ते कुम्भिका भागमानतः । षडंशो भरणं शीर्षं चार्धार्धभागिकम् ॥ ८२ ॥ उर्ध्वे सतन्त्रिकः पट्टो भागोऽर्धा विस्तरे तुला । उच्चौ भागतृतीयांशे व्यासतुल्यं तुलान्तरम् ॥ ८३ ॥ राजगृहादौ अष्टभक्ते गृहोत्सेधे भागेनैकेन कुम्भिका । सार्धवेदांशकः स्तम्भ उछालः (च्छायः ?) सार्धभागिकः ॥ ८४ ॥
१९. नैक-in A