वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 154, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 154
118 वास्तुमण्डनम् २०हीरग्रहणमंशेन शुण्डिकादिविराजितम्। सतन्त्रिकः सपादांशः २१पट्टः सा त्र्यंशनिर्गताः ॥८५ ॥ भागार्धेन जयन्ती स्यात्क्रम एव तले तले। उदुम्बर समाकुम्भी स्तम्भाद् द्विगुणविस्तरा ॥८६ ॥ स्तम्भतुल्याकृतिः कार्या भरणं चापि तादृशम्। गृहव्यासकरमितैरङ्गुलैः स्तम्भविस्तराः ॥८७ ॥ स्तम्भपट्ट तुलाश्रेण्यां स्थानं मानं न लङ्घयेत्। शालयोरन्तरे भित्तिस्तत्पार्श्वं स्तम्भकाबली ॥८८ ॥ अग्रालिन्दे न कर्तव्ये नायं सार्वत्रको विधिः। भित्तेरुपरि भित्तिस्यात्स्तम्भं स्तम्भोपरि न्यसेत् ॥८९ ॥ भित्तेरुपरि वा स्तम्भं स्तम्भोर्ध्वे नैव २२भित्तिका। भरणं द्विगुणं स्तम्भाद्व्यासे स्तम्भसमं शिरः ॥ ९० ॥ दैर्घ्यं सप्तगुणं यावत् शीर्षात् पट्टः सपादकः। सुरूपं वा विरूपं वा सर्वमङ्गं २३प्रयोजयेत् ॥९१ ॥ भित्तिविस्तारपादोना वरंडी विषमस्तरा। भित्तिव्यास२४समोत्सेधा विधेया गजपृष्ठवत् ॥९२ ॥ अन्तमूलं प्रणालं स्यात्तुला दैर्घ्यार्धमायतम् ॥९३ ॥
२०. हारगृह-in C, द्वीरग्रह-in D and, हीरगृहा-in E २१. पदः in A २२. भिभिका in B २३. प्रजोजयेत् in A २४. ससोत्सेधा in B