वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 156, कुल 296 में से
संदर्भ में पढ़ें120 वास्तुमण्डनम् अथ भूलम्भः गृहं व्यासेऽष्टहस्तान्तमेकभूमं प्रकारयेत्। ततो दश दशर्ध्यन्तं क्रमवृद्ध्या२५तलं न्यसेत् ॥९४ ॥ एकभूमं द्विभूमं वा क्षुद्राणां भवनं नृणाम्। शूद्राणां त्रितलं कुर्याद्वैश्यानां तु चतुस्तलम् ॥९५॥ क्षत्रियादेः २६पञ्चभूमं द्विजानां रागभूमिकम्। ससाढ्यं मण्डलीकानां भूभुजां नवभूमिकम् ॥९६ ॥ एकादशतलं गेहं विदध्याच्चक्रवर्त्तिनाम्। उदयेऽर्कार्कभागेन हीना ऊर्ध्वोर्ध्वभूमिकाः ॥९७॥ अधस्तलक्रिया युक्तिं कुर्यादूर्ध्वतलेष्वपि। कुट्टिमार्थं सुधाचूर्णं शर्करा कर्करेष्टकाः ॥९८ ॥ कदली पुरमाषाद्यैर्युक्ताः योज्या गृहादिषु ॥९९ ॥ अथ वृक्षाहरणम् धनिष्ठापञ्चकं त्यक्त्वा सुनिमित्ते शुभे दिने। वनं गत्वा बलिं दत्वा कर्मयोग्यं वरेद्द्रुमम् ॥१०० ॥ मन्त्रः ॐ २७अपक्रामन्तु भूतानि देवराक्षसगुह्यकाः । युष्मभ्यं तु बलिर्भूयाच्छं मे दिशत पादपाः ॥१०१ ॥ २५. ललं in B २६. पंचतलं in B २७. Similar verse in Maymatam ch 15 v 89,90