वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 158, कुल 296 में से
संदर्भ में पढ़ें122 वास्तुमण्डनम् शिवमस्तु महीपुत्रा देवताश्च सगुह्यकाः। कर्मैतत्साधयिष्यामि क्रियतां २८देवपर्ययः ॥१०२ ॥ एवमुक्त्वा द्रुमं नत्वा कुठारमभिमन्त्रयेत् ॥१०३ ॥ मन्त्रः ॐ नमो रुद्राय देवाय २९पिङ्गलाय महात्मने। विश्वदेवाय विश्वरूपाय ३०विश्वकर्मणे नमो नमः३० ॥१०४॥ मूलं हस्तं विहायोर्ध्वं छित्वा तत्राभिलक्षयेत् ॥१०५ ॥ वारिश्रावः शुभो नेष्टः क्षीराज्यस्र मधुश्रवः। पूर्वे सौम्येऽथवेशाने पतितः शुभदो द्रुमः ॥१०६ ॥ गृहाद्यर्थं त्यजेद्वृक्षं चैत्यप्रासादपार्श्वगम्। भूतावासं श्मशानस्थं सकीट३१व्रणकोटरम् ॥१०७॥ सवल्मीकं स्वयं शुष्कं सनीडं चान्त्यजैः श्रितम्। दवालीढं बहुशिरं सरित्सङ्गम३२सम्भवम् ॥१०८ ॥ सक्षीरकण्टकं भग्नं पथि सर्वजनैः श्रितम्। ३३संसेवितं खगमृगैर्वातेन तडिदाहतम् ॥१०९ ॥ वापीकूपतडागादि वास्तुजातं रुजायुतम्। आम्रं बिभीतकं चिञ्चां नीपं श्लेष्मातकं धवम् ॥११० ॥ २८. वो विपर्ययःin BCDE २९. Ms A omits v104 from पिङ्गलाय to विश्वदेवाय ३०. नमस्ते विश्वकर्मणे in D ३१. घृण-in ३२. संभवं in B ३३. संसेविकं in B