वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 160, कुल 296 में से
संदर्भ में पढ़ें124 वास्तुमण्डनम् अरिष्ट३४पञ्चकं तद्वत्कोविदारमुदुम्बरम्। शुभाः पुण्यवनाद्रिस्था दृढाः साराः समाद्रुमाः ॥१११॥ शाकः शिरीषः श्रीपर्णी शिंशपा सरलः शमी। सुरद्रुमः सप्तपर्णः शाल्मली सर्जकोऽशनः ॥११२॥ तमालतालहिन्तालशालकालाः सकट्फलाः। नालिकेरः (नारिकेलः) सखर्जूरश्रीरः कदरखदिरौ ॥११३॥ विम्बो निम्बः कदम्बश्च जम्बुः स्तम्बो मधुद्रुमः। पिशितः पनसः पिण्डी पूगपत्तङ्गपद्मकाः ॥११४॥ राजादनो धन्वनश्च चन्दनो रक्तचन्दनः। तिनिसस्तिमिर३५श्रोणिं तिन्दुकस्तिलकस्तरुः ॥११५॥ अजकर्णोऽर्जुनो भूर्जोऽशोको वंशोविकङ्कतः। क्षीरिणी रोहिणी रोध्री होमो हारिद्रकोऽञ्जनः ॥११६॥ पुरुषो लंकुचः सिंहो गवाक्षी च शुभा मयमते गृहे। कालस्कन्धः कोविदारः करवीरः कलिद्रुमः ॥ ११७॥ ३६कालागरुः कर्णिकारः कपित्थश्चापि किंशुकः। कण्टः करञ्जः कर्पूरस्तिन्दुकश्च महाद्रुमाः ॥११८॥ बदर्युदुम्बरो बाणो विल्वश्च बकुलो वटः। पुत्रजीवः पारिजातः पिण्डी पालाशपिप्पलौ ॥११९॥ पाटला पद्मकः पीलुः प्लक्षः पथ्यापिक प्रियः। श्लेष्मातकः सप्तपर्णः शिरीषः सरलः शिवाः ॥१२०॥ ३४. चंपकं in A ३५. ख्रौणि/स्त्रीणि in BDE ३६. Ms Aomits v 118