वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 162, कुल 296 में से
संदर्भ में पढ़ें126 वास्तुमण्डनम् शिलीन्ध्रः शाल्मली सर्पमार शम्याकशाबराः । देवयोग्या इमे वृक्षा मानुषेष्वस्तनर्थदाः ॥ १२१ ॥ तस्मात्सर्वप्रयत्नेन न गृह्णीयान्नरालये । न वृक्षानयनं कार्यं धनिष्ठादिपञ्चके ॥१२२ ॥ यदेकद्वित्रिजातीयैः भूरुहैः भवनं कृतम् । तत्तनोति श्रियं नित्यं बहुभिर्बहुभीतिदम् ॥१२३ ॥ मतान्तरे ॥ एकैव शस्ता श्रीपर्णी शिंशपा सरलोऽर्जुनः । हारिद्रकस्तिन्दुकश्च पद्मकः पनसतथा ॥१२४ ॥ चन्दनः सुरदारुश्च योज्या नैतेऽन्यसंयुताः ॥१२५ ॥ अथ सन्धिविधिः- ³७मूले मूलं न युञ्जियादग्रेणाग्रं च दारुणः । न पुराणैः नवमथो मूलं याम्येऽपरे शुभम् ॥१२६ ॥ ऊर्ध्वद्रव्येष्वधोमूलं पार्श्वद्रव्येषु मध्यतः । शायिते स्यादधोमूलमग्रमूर्ध्वं प्रयोजयेत् ॥१२७ ॥ चतुष्ट्यां नैर्ऋते मूले कुर्यादग्रद्वयं शिवे । न सन्धिः स्तम्भयोर्मध्ये ब्रह्मस्थानेऽपि तं त्यजेत् ॥१२८ ॥ एकस्मिन् पंक्तिसन्धाने सन्धिरेकाकृतिर्भवेत् । उपर्युपरि चैवं स्याद्विपरीते विपत्करम् ॥१२९ ॥ 37. Similar verses are found in the Mayamata Part I ch. 17 v. 9 onward.