वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 166, कुल 296 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः [गृहविन्यासः लक्षणसमुच्चयः] यस्यां दिशि पुरो द्वारं तां प्राचीं परिकल्पयेत्। न्यास ईशादितः कार्यो भोजने शयनेऽन्यथा ॥१ ॥ विवेकविलासेऽपि। पूर्वादिदिग्विनिर्देशो गृहे द्वार१व्यपेक्षया। भास्करोदयदिक्पूर्वा न विज्ञेया यथा श्रुते ॥२ ॥ पूर्वे द्वारं गृहे कुर्यादास्थानं पृथु चाङ्गनम्। अग्नौ महानसं धेनुं महिषी व्यञ्जनालयम् ॥३ ॥ याम्ये जलगृहं नृत्यशालां भोजनमन्दिरम्। नैर्ऋत्ये स्नानसूतानां देहचिन्तापदं बहिः ॥४ ॥ पश्चिमे दीर्घिकास्थानं वायौ स्नेहान्नयोगृहम्। सौम्ये धनाङ्गनोद्यानस्थानमीशे सुरालयम् ॥५ ॥ मध्ये मुख्यगृहं स्वामि२वाञ्छया शयनास्पदम्। पश्चिमास्या गृहे देवा स्थाप्या दक्षिणतोमुखः ॥६ ॥ याम्योत्तरास्या गावः स्युर्न प्राक् पश्चिमतोमुखाः ॥७ ॥ १. अपेक्षया in DE २. वांछना in A