वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 168, कुल 296 में से
संदर्भ में पढ़ें132 वास्तुमण्डनम् वीक्षः । वामाङ्गे वस्त्रशस्यार्थं देवार्चाभेषजालयम् । दक्षिणे दीप३नयानतोयोच्छिष्टपदं न्यसेत् ॥८॥ अथ राजगृहविन्यासः ॥ पुरादौ त्रिचतुर्थांशे कारयेत् राजमन्दिरम् । पश्चिमे सौम्यतो वाऽपि तत्तु दुर्गेषु भूवशात् ॥९॥ अपराजिते ॥ एकद्वित्रिसहस्रैस्तु हस्तैः राजगृहं त्रिधा । तुङ्गंराजगृहं रम्यं मन्दिरोद्यानदीर्घिकाः ॥१०॥ त्रिप्राकारं सपरिखं स्याच्चतुर्गोपुरं वरम् । पूर्वास्यं दक्षिणास्यं वा नोदक् प्रत्यग्दिशामुखम् ॥११॥ एकाशीति पदे क्षेत्रे मध्ये ब्रह्मपदेऽकणम् । मण्डपं वा न्यसेद्द्रव्य४माये द्वारं गृहं सभा ॥१२॥ विवस्वत्यभिषेकार्थं मित्रे मुख्यगृहं न्यसेत् । पृथ्वीधरे सभामापे भाण्डागारं प्रकारयेत् ॥१३॥ आपवत्सेऽम्बरागारं सावित्रे भोजनास्पदम् । कुर्यात्सवितरि श्रेष्ठं सव्यं जनमहानसम् ॥१४॥ इन्द्रे राजाम्बिकागेहमिन्द्रराज ५उपस्करम् । रुद्र६व्यये ७महिष्याश्च राजस्त्रीणां गृहा अपि ॥१५॥ ३. मंयान - in A ४. Here आय denotes the place for Aryamâ ५. पुरस्करम् in BCDE ६. द्वये in A ७. महिषश्व in A