भारतकोश
वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)

Vastu Mandanam of Sutradhara Mandana with Commentary

मण्डन सूत्रधार द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 174, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 174

षष्ठोऽध्यायः [शालादि गृहलक्षणम्] ध्रुवादीनि प्रवक्ष्यामि वासाय पुरवासिनाम्। शस्तानि निन्दितान्येषां भवन्ति भवनानि च ॥१ ॥ अलिन्दा द्वित्रिवेदान्तशाले गेहे ध्रुवादिवत्। मुखे द्वि १अधिका कार्या मण्डपस्य च वृद्धये ॥२ ॥ शालामध्ये द्विषट्दारु २एकं कुर्याद्विनापि तम्। मध्येऽपवरकं ३वापि फलकैर्दृढकाष्ठजैः ॥३ ॥ छन्दास्तु षड्जात्युत्पन्ना भेदैर्भिन्ना द्विरष्टभिः। तैरुक्तं क्रमरूपाद्यै गृहसंख्या ह्यनेकधा ॥ ४ ॥ खण्डपाण्डुवाजिमयतृणपर्णसुपट्टकैः। उदितः षड्विधः छन्दः प्रयोज्यो गृहकर्मणि ॥ ५ ॥ पट्टछन्दे यथा भेदाः शालालिन्दादिका मताः। विपरीता तृणछन्दे षोडशैव प्रकीर्त्तिताः ॥ ६ ॥ हीनोदयाः पाण्डुसंज्ञा वाजिनस्तूच्छ्रयेऽधिकाः। फलकान्ते चतुर्हस्तः शेषछन्देषु ४चोच्छ्रयः ॥ ७ ॥ १. त्र्यधिका - in B २. एवं - in A ३. चापि - in A ४. वोच्छ्रयः - in D.E