वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 176, कुल 296 में से
संदर्भ में पढ़ें140 वास्तुमण्डनम् अथ प्रस्तारः यदृच्छया लिख्य गुरून्सर्वस्याधो लघुं लिखेत्। यथोपरि तथा शेषं भूयः कुर्यादमुंविधिम्॥ ८॥ ऊने दद्यादुरून्सर्वं लघ्वन्तं प्रस्तारेदिति॥ ९॥ प्रस्तारः। नष्टे रूपे बुधैः पृष्टे गुरूरूने समे लघुः। विषमे चैकमाधाय दलयेत्पुनरेव हि॥ १०॥ नष्टम्। उद्दिष्टे स्थापयेदङ्कान् क्रमाद् द्विगुणितानधः। लघुस्थानोद्भवैरङ्कैः संख्या स्यादेकमिश्रितैः॥ ११॥ उद्दिष्टम्। प्रस्तारवर्णैस्तु समानैकाद्यानेक भू लिखेत्। ततः संकलनं कुर्यादुपात्यस्य निवर्त्तनात्॥ १२॥ एकादिलघुविज्ञानं द्वितीयस्थानतो भवेत्। मेरुश्च खण्डमेरुश्च सूची तद्वल्लघुक्रिया॥ १३॥ द्वौ भागौ विलिखेत्तिर्यगेककाङ्केन संयुतौ। अंशवृद्ध्य क्रमेणाधो मेरौ वा खण्डमेरुके॥ १४॥ एकैकाङ्कं लिखेत् पंक्त्यमादावन्ते च सर्वतः। ऊर्ध्वसङ्कलनेनाधः पंक्तौ पंक्तौ च मध्यतः॥ १५॥ आदौ सर्वगुरौ रूपं प्रान्ते सर्वलघुर्भवेत्। शेषेष्वेकाद्यलिन्दानां संख्या प्राज्ञैरुदाहृता॥ १६॥ इति मेरुखण्डे मेरुसूचीछन्दः॥