वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 178, कुल 296 में से
संदर्भ में पढ़ें142 वास्तुमण्डनम् इष्टरूपे लघून्पूर्वमन्ते तु विलिखेद्गुरून् । पूर्ववत्प्रस्तारे तावद्यावद्रूपविपर्ययम् ॥ १७ ॥ लघोः पृष्ठे गुरून्दद्याच्छेषांस्तस्माल्लघून्यसेत् । पूर्वरूपे तु यावन्तोलास्तावन्तोऽपरेष्वपि ॥ १८ ॥ खण्डप्रस्तार इत्येषपताकाछन्सूचकः । लघुक्रियाङ्गसंघात पृथगुपायदर्शितः ॥ १९ ॥ इति खण्डप्रस्तारः। लघुस्थाने गृहमुखदालिन्दं सृष्टितो न्यसेत् । तत्पर्यायाः क्षणे मुखाःपदेऽलिन्दे लघुस्तथा ॥ २० ॥ चतुर्गुरूणां प्रस्तारे एकशालानि षोडश । ध्रुवादीनि गृहाणि स्युस्तेभ्यो वेदोत्तरं शतम् ॥ २१ ॥ प्रस्तारो रूपभेदो स्याद्गृहाणि षोडशैव हि । तेषु मन्वङ्गदिग्विश्वपञ्चमं तु परित्यजेत् ॥ २२ ॥ तेभ्यः षोडशतश्चैकशालानि सयुगांशतम् । एकैकस्य सहस्रं तु पुनरष्टौ तथैकतः ॥ २३ ॥ द्वापञ्चाशद्द्विशालानामेकैकस्य क्रमेण च । ५द्विसहस्रमिता वृद्धिः पुनरष्टौ तथैकतः ॥ २४ ॥ द्वासप्ततिस्त्रिशालानि त्रीणि त्रीणि क्रमात्ततः । सहस्राणि भवन्त्येवं तथैवाष्टाष्ट चैकतः ॥ २५ ॥ ५. Comp A.P ch 93. V 22-23