वास्तु मण्डन (मण्डन सूत्रधार - गृह, राजप्रासाद, दुर्ग एवं नगर-वास्तु सटीक)
Vastu Mandanam of Sutradhara Mandana with Commentary
मण्डन सूत्रधार द्वारा
पृष्ठ 180, कुल 296 में से
संदर्भ में पढ़ें144 वास्तुमण्डनम् चतुःशालं६गृहाणि हि षट्पञ्चाशं शतद्वयम्। वृद्धिर्वेदसहस्राणां पूर्ववत्पु७नरष्ट च॥ २६॥ कोट्येका तिथिलक्षाणि सहस्राणि युगाष्टं च। तेषां गृहाणां संख्या तु प्रोक्ता श्रीविश्वकर्मणा॥ २७॥ एकद्वित्रिचतुःशालं गृहं प्रस्तारतो भवेत्। पञ्चादिदशशालान्तं तेषां संयोगतो मिथः॥ २८॥ गृहाणां पञ्चशालानां षड्विधा योजना मता। यथा। पञ्चशालं भवेद्योगाच्चतुःशालैकशालयोः॥ २९॥ त्रिशालयुग्मशालाभ्यां द्व्येकशालत्रिशालतः। द्विद्वीशालैकशालेन द्व्येकशालाद्विशालतः॥ ३०॥ योगात्पञ्चैकशालानां तत्षोढैवं पराण्यपि। नवधा रसशालानां सप्तशाले शिवोन्मिता॥ ३१॥ अष्टशाले तिथिमता नवशालेऽष्टभूमिता(काः)। योजना दशशालानां त्रयोविंशतिधा मता॥३२॥ यन्नाम जन्मभादन्यत्तद्बर्द्धै ‘ईष्टतः कृतम्। नृपालोके गृहे ग्रामे तेन चिन्त्यं शुभाशुभम्॥ ३३॥ गढदुर्गपुरग्रामनामानि विविधान्यपि। कृतानि विबुधैर्बुद्ध्या तथा भवतु वेश्मनि॥ ३४॥ ६. गृहाणां in ACDE ७. पुनरेव च in D, E ८. हर्षतः in B